Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.117
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निदर्शनकरं लोके सज्जनाचरितं सदा ॥१२-११७-१॥
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने। जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥१२-११७-२॥
वने महति कस्मिंश्चिदमनुष्यनिषेविते। ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥१२-११७-३॥
दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः। उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥१२-११७-४॥
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः। सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः ॥१२-११७-५॥
सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः। द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः ॥१२-११७-६॥
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः। तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः ॥१२-११७-७॥
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्। ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् ॥१२-११७-८॥
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः। फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा ॥१२-११७-९॥
तस्यर्षेरुपविष्टस्य पादमूले महामुनेः। मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् ॥१२-११७-१०॥
ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः। श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः ॥१२-११७-११॥
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः। व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् ॥१२-११७-१२॥
तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप। प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते ॥१२-११७-१३॥
श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति। त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने ॥१२-११७-१४॥
मुनिरुवाच॥
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन। एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥१२-११७-१५॥
भीष्म उवाच॥
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः। चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः ॥१२-११७-१६॥
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः। द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः ॥१२-११७-१७॥
व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम्। द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् ॥१२-११७-१८॥
ततः संवासजं स्नेहमृषिणा कुर्वता सदा। स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः ॥ ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते ॥१२-११७-१९॥
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः। न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ॥१२-११७-२०॥
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः। तथैव स महाराज व्याघ्रः समभवत्तदा ॥१२-११७-२१॥
व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः। नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥१२-११७-२२॥
प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः। सुविषाणो महाकायो मेघगम्भीरनिस्वनः ॥१२-११७-२३॥
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम्। व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ ॥१२-११७-२४॥
ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः। महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः ॥१२-११७-२५॥
ततः कमलषण्डानि शल्लकीगहनानि च। व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः ॥१२-११७-२६॥
कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा। ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ॥१२-११७-२७॥
अथाजगाम तं देशं केसरी केसरारुणः। गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः ॥१२-११७-२८॥
तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः। ऋषिं शरणमापेदे वेपमानो भयातुरः ॥१२-११७-२९॥
ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा। वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥१२-११७-३०॥
दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः। स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी ॥१२-११७-३१॥
न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः। व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा ॥१२-११७-३२॥
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः। बलवान्क्षतजाहारो नानासत्त्वभयङ्करः ॥१२-११७-३३॥
अष्टपादूर्ध्वचरणः शरभो वनगोचरः। तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥१२-११७-३४॥
तं मुनिः शरभं चक्रे बलोत्कटमरिंदम। ततः स शरभो वन्यो मुनेः शरभमग्रतः ॥ दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्भयात् ॥१२-११७-३५॥
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा। मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् ॥१२-११७-३६॥
ततः शरभसन्त्रस्ताः सर्वे मृगगणा वनात्। दिशः सम्प्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः ॥१२-११७-३७॥
शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः। फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः ॥१२-११७-३८॥
ततो रुधिरतर्षेण बलिना शरभोऽन्वितः। इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः ॥१२-११७-३९॥
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा। विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् ॥१२-११७-४०॥
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः। व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् ॥१२-११७-४१॥
सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः। मया स्नेहपरीतेन न विमृष्टः कुलान्वयः ॥१२-११७-४२॥
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि। तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि ॥१२-११७-४३॥
ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः। ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान् ॥१२-११७-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.