Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.118
भीष्म उवाच॥
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्। ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ॥१२-११८-१॥
एवं राज्ञा मतिमता विदित्वा शीलशौचताम्। आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ॥१२-११८-२॥
अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम्। भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ॥१२-११८-३॥
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति। अकुलीननराकीर्णो न राजा सुखमेधते ॥१२-११८-४॥
कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा। न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥१२-११८-५॥
अकुलीनस्तु पुरुषः प्रकृतः साधुसङ्क्षयात्। दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥१२-११८-६॥
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्। सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥१२-११८-७॥
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्। अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् ॥१२-११८-८॥
सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम्। सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् ॥१२-११८-९॥
युक्ताचारं स्वविषये सन्धिविग्रहकोविदम्। राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् ॥१२-११८-१०॥
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्। इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् ॥१२-११८-११॥
हस्तिशिक्षासु तत्त्वज्ञमहङ्कारविवर्जितम्। प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् ॥१२-११८-१२॥
चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम्। नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् ॥१२-११८-१३॥
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च। धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् ॥१२-११८-१४॥
सचिवं यः प्रकुरुते न चैनमवमन्यते। तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥१२-११८-१५॥
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः। एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥१२-११८-१६॥
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्। शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥१२-११८-१७॥
मेधावी धारणायुक्तो यथान्यायोपपादकः। दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥१२-११८-१८॥
दानाच्छेदे स्वयङ्कारी सुद्वारः सुखदर्शनः। आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः ॥१२-११८-१९॥
नाहंवादी न निर्द्वंद्वो न यत्किञ्चनकारकः। कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥१२-११८-२०॥
सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा। दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः ॥१२-११८-२१॥
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः। चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा ॥१२-११८-२२॥
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्। योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः ॥१२-११८-२३॥
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः। न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता ॥१२-११८-२४॥
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः। धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः ॥१२-११८-२५॥
अर्थमानविवृद्धाश्च रथचर्याविशारदाः। इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥१२-११८-२६॥
सर्वसङ्ग्रहणे युक्तो नृपो भवति यः सदा। उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः ॥१२-११८-२७॥
शक्या अश्वसहस्रेण वीरारोहेण भारत। सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा ॥१२-११८-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.