Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.119
भीष्म उवाच॥
एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः। नियोजयति कृत्येषु स राज्यफलमश्नुते ॥१२-११९-१॥
न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः। आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते ॥१२-११९-२॥
स्वजातिकुलसम्पन्नाः स्वेषु कर्मस्ववस्थिताः। प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा ॥१२-११९-३॥
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति। स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते ॥१२-११९-४॥
शरभः शरभस्थाने सिंहः सिंह इवोर्जितः। व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥१२-११९-५॥
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि। प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥१२-११९-६॥
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः। भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥१२-११९-७॥
न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः। नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा ॥१२-११९-८॥
साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः। अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः ॥१२-११९-९॥
न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः। स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः ॥१२-११९-१०॥
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्। असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥१२-११९-११॥
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः। न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥१२-११९-१२॥
एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः। कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुन्धराम् ॥१२-११९-१३॥
नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः। सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ॥१२-११९-१४॥
बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः। ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् ॥१२-११९-१५॥
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः। कोशमूला हि राजानः कोशमूलकरो भव ॥१२-११९-१६॥
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितम्। सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव ॥१२-११९-१७॥
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः। वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥१२-११९-१८॥
ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः। पौरकार्यहितान्वेषी भव कौरवनन्दन ॥१२-११९-१९॥
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया। श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥१२-११९-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.