12.120
युधिष्ठिर उवाच॥
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत। पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥१२-१२०-१॥
तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम्। प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥१२-१२०-२॥
भीष्म उवाच॥
रक्षणं सर्वभूतानामिति क्षत्रे परं मतम्। तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥१२-१२०-३॥
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः। तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ॥१२-१२०-४॥
तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च। मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति ॥१२-१२०-५॥
यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत्। बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥१२-१२०-६॥
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी। श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः ॥१२-१२०-७॥
आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव। शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ॥१२-१२०-८॥
अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम्। नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः ॥ लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् ॥१२-१२०-९॥
मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत्। जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः ॥१२-१२०-१०॥
दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत्। काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् ॥१२-१२०-११॥
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान्। श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् ॥१२-१२०-१२॥
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने। मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् ॥ न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ॥१२-१२०-१३॥
चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत्। पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः ॥१२-१२०-१४॥
हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान्। नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् ॥१२-१२०-१५॥
सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत्। सर्वतश्चाददेत्प्रज्ञां पतङ्गान्गहनेष्विव ॥ एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् ॥१२-१२०-१६॥
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः। आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् ॥ बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥१२-१२०-१७॥
परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत्। आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ॥ सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः ॥१२-१२०-१८॥
निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा। संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ॥ स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥१२-१२०-१९॥
अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः। आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥१२-१२०-२०॥
क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम्। स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥१२-१२०-२१॥
अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु। सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता ॥१२-१२०-२२॥
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्। ममायमिति राजा यः स पर्वत इवाचलः ॥१२-१२०-२३॥
व्यवसायं समाधाय सूर्यो रश्मिमिवायताम्। धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥१२-१२०-२४॥
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः। मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् ॥१२-१२०-२५॥
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान्। स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः ॥१२-१२०-२६॥
एतेनैव प्रकारेण कृत्यानामागतिं गतिम्। युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः ॥१२-१२०-२७॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः। आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा ॥१२-१२०-२८॥
व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः। गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ॥१२-१२०-२९॥
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन्। चारांश्च नचरान्विद्यात्तथा बुद्ध्या न सञ्ज्वरेत् ॥१२-१२०-३०॥
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्। अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ॥१२-१२०-३१॥
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः। तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् ॥१२-१२०-३२॥
यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः। सञ्चयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥१२-१२०-३३॥
नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान्। बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् ॥१२-१२०-३४॥
धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या; धैर्यं शौर्यं देशकालोऽप्रमादः। स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्यष्ट समिन्धनानि ॥१२-१२०-३५॥
अग्निस्तोको वर्धते ह्याज्यसिक्तो; बीजं चैकं बहुसाहस्रमेति। क्षयोदयौ विपुलौ संनिशाम्य; तस्मादल्पं नावमन्येत विद्वान् ॥१२-१२०-३६॥
बालोऽबालः स्थविरो वा रिपुर्यः; सदा प्रमत्तं पुरुषं निहन्यात्। कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः ॥१२-१२०-३७॥
हरेत्कीर्तिं धर्ममस्योपरुन्ध्या; दर्थे दीर्घं वीर्यमस्योपहन्यात्। रिपुर्द्वेष्टा दुर्बलो वा बली वा; तस्माच्छत्रौ नैव हेडेद्यतात्मा ॥१२-१२०-३८॥
क्षयं शत्रोः सञ्चयं पालनं चा; प्युभौ चार्थौ सहितौ धर्मकामौ। अतश्चान्यन्मतिमान्संदधीत; तस्माद्राजा बुद्धिमन्तं श्रयेत ॥१२-१२०-३९॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम्। शत्रुर्बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् ॥१२-१२०-४०॥
सर्वान्कामान्कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः। यथात्मानं प्रार्थयतेऽर्थमानैः; श्रेयःपात्रं पूरयते ह्यनल्पम् ॥१२-१२०-४१॥
तस्माद्राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतोऽभ्याददीत। दीर्घं कालमपि सम्पीड्यमानो; विद्युत्सम्पातमिव मानोर्जितः स्यात् ॥१२-१२०-४२॥
विद्या तपो वा विपुलं धनं वा; सर्वमेतद्व्यवसायेन शक्यम्। ब्रह्म यत्तं निवसति देहवत्सु; तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥१२-१२०-४३॥
यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर्यत्र सरस्वती च। वसन्ति भूतानि च यत्र नित्यं; तस्माद्विद्वान्नावमन्येत देहम् ॥१२-१२०-४४॥
लुब्धं हन्यात्सम्प्रदानेन नित्यं; लुब्धस्तृप्तिं परवित्तस्य नैति। सर्वो लुब्धः कर्मगुणोपभोगे; योऽर्थैर्हीनो धर्मकामौ जहाति ॥१२-१२०-४५॥
धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम्। लुब्धे दोषाः सम्भवन्तीह सर्वे; तस्माद्राजा न प्रगृह्णीत लुब्धान् ॥१२-१२०-४६॥
संदर्शने सत्पुरुषं जघन्यमपि चोदयेत्। आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् ॥१२-१२०-४७॥
धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव। आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसङ्ग्रहे ॥१२-१२०-४८॥
विधिप्रवृत्तान्नरदेवधर्मा; नुक्तान्समासेन निबोध बुद्ध्या। इमान्विदध्याद्व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः ॥१२-१२०-४९॥
अनीतिजं यद्यविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते। न विद्यते तस्य गतिर्महीपते; र्न विद्यते राष्ट्रजमुत्तमं सुखम् ॥१२-१२०-५०॥
धनैर्विशिष्टान्मतिशीलपूजिता; न्गुणोपपन्नान्युधि दृष्टविक्रमान्। गुणेषु दृष्टानचिरादिहात्मवा; न्सतोऽभिसन्धाय निहन्ति शात्रवान् ॥१२-१२०-५१॥
पश्येदुपायान्विविधैः क्रियापथै; र्न चानुपायेन मतिं निवेशयेत्। श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते ॥१२-१२०-५२॥
प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः। यदेव मित्रं गुरुभारमावहे; त्तदेव सुस्निग्धमुदाहरेद्बुधः ॥१२-१२०-५३॥
एतान्मयोक्तांस्तव राजधर्मा; न्नृणां च गुप्तौ मतिमादधत्स्व। अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः ॥१२-१२०-५४॥