12.121
Library: The three aims of life—dharma, artha, and kāma—always proceed from proper administration of punishment. Indeed, fate is the supreme punishment, which in form is like fire with an upraised flame.
युधिष्ठिर उवाच॥
अयं पितामहेनोक्तो राजधर्मः सनातनः। ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥१२-१२१-१॥
देवतानामृषीणां च पितॄणां च महात्मनाम्। यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ॥१२-१२१-२॥
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्। सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ॥१२-१२१-३॥
इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम्। दृश्यते लोकमासक्तं ससुरासुरमानुषम् ॥१२-१२१-४॥
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ। को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः ॥१२-१२१-५॥
किमात्मकः कथम्भूतः कतिमूर्तिः कथम्प्रभुः। जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ॥१२-१२१-६॥
कश्च पूर्वापरमिदं जागर्ति परिपालयन्। कश्च विज्ञायते पूर्वं कोऽपरो दण्डसञ्ज्ञितः ॥ किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ॥१२-१२१-७॥
भीष्म उवाच॥
शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः। यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ॥१२-१२१-८॥
धर्मस्याख्या महाराज व्यवहार इतीष्यते। तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ॥ इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ॥१२-१२१-९॥
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः। सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ॥ प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥१२-१२१-१०॥
अथोक्तमेतद्वचनं प्रागेव मनुना पुरा। जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥१२-१२१-११॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः। व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥१२-१२१-१२॥
दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते। दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ॥१२-१२१-१३॥
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः। अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥१२-१२१-१४॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः। एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ॥१२-१२१-१५॥
असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः। मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ॥१२-१२१-१६॥
सर्वप्रहरणीयानि सन्ति यानीह कानिचित्। दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ॥१२-१२१-१७॥
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥१२-१२१-१८॥
असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः। श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥१२-१२१-१९॥
शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः। धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ॥१२-१२१-२०॥
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥१२-१२१-२१॥
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः। शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ॥१२-१२१-२२॥
यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती। दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥१२-१२१-२३॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले। दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥१२-१२१-२४॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः। अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ॥१२-१२१-२५॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये। हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ॥१२-१२१-२६॥
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्। मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ ॥१२-१२१-२७॥
अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ। विनयश्च विसर्गश्च कालाकालौ च भारत ॥१२-१२१-२८॥
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च। क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥१२-१२१-२९॥
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा। विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले ॥१२-१२१-३०॥
असूया चानसूया च धर्माधर्मौ तथैव च। अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह ॥१२-१२१-३१॥
तेजः कर्मणि पाण्डित्यं वाक्षक्तिस्तत्त्वबुद्धिता। एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ॥१२-१२१-३२॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्। भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ॥१२-१२१-३३॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः। राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥१२-१२१-३४॥
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर। सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥१२-१२१-३५॥
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च। बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ॥१२-१२१-३६॥
प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत। अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥१२-१२१-३७॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः। तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥१२-१२१-३८॥
एवम्प्रयोजनश्चैव दण्डः क्षत्रियतां गतः। रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ॥१२-१२१-३९॥
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः। भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ॥१२-१२१-४०॥
अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च। बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥१२-१२१-४१॥
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च। आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥१२-१२१-४२॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च। दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥१२-१२१-४३॥
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः। अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥१२-१२१-४४॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः। कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥१२-१२१-४५॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः। राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ॥१२-१२१-४६॥
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि। दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ॥ राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ॥१२-१२१-४७॥
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च। भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ॥ तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥१२-१२१-४८॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते। मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ॥१२-१२१-४९॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः। ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ॥१२-१२१-५०॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः। व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥१२-१२१-५१॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः। धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ॥१२-१२१-५२॥
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर। त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥१२-१२१-५३॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ॥ यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ॥१२-१२१-५४॥
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः। लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ॥ समनुष्योरगवतां कर्ता चैव स भूतकृत् ॥१२-१२१-५५॥
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः। तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥१२-१२१-५६॥
माता पिता च भ्राता च भार्या चाथ पुरोहितः। नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ॥१२-१२१-५७॥