Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.121
युधिष्ठिर उवाच॥
अयं पितामहेनोक्तो राजधर्मः सनातनः। ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥१२-१२१-१॥
देवतानामृषीणां च पितॄणां च महात्मनाम्। यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ॥१२-१२१-२॥
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्। सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ॥१२-१२१-३॥
इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम्। दृश्यते लोकमासक्तं ससुरासुरमानुषम् ॥१२-१२१-४॥
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ। को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः ॥१२-१२१-५॥
किमात्मकः कथम्भूतः कतिमूर्तिः कथम्प्रभुः। जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ॥१२-१२१-६॥
कश्च पूर्वापरमिदं जागर्ति परिपालयन्। कश्च विज्ञायते पूर्वं कोऽपरो दण्डसञ्ज्ञितः ॥ किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ॥१२-१२१-७॥
भीष्म उवाच॥
शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः। यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ॥१२-१२१-८॥
धर्मस्याख्या महाराज व्यवहार इतीष्यते। तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ॥ इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ॥१२-१२१-९॥
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः। सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ॥ प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥१२-१२१-१०॥
अथोक्तमेतद्वचनं प्रागेव मनुना पुरा। जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥१२-१२१-११॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः। व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥१२-१२१-१२॥
दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते। दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ॥१२-१२१-१३॥
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः। अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥१२-१२१-१४॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः। एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ॥१२-१२१-१५॥
असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः। मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ॥१२-१२१-१६॥
सर्वप्रहरणीयानि सन्ति यानीह कानिचित्। दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ॥१२-१२१-१७॥
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥१२-१२१-१८॥
असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः। श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥१२-१२१-१९॥
शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः। धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ॥१२-१२१-२०॥
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥१२-१२१-२१॥
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः। शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ॥१२-१२१-२२॥
यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती। दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥१२-१२१-२३॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले। दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥१२-१२१-२४॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः। अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ॥१२-१२१-२५॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये। हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ॥१२-१२१-२६॥
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्। मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ ॥१२-१२१-२७॥
अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ। विनयश्च विसर्गश्च कालाकालौ च भारत ॥१२-१२१-२८॥
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च। क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥१२-१२१-२९॥
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा। विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले ॥१२-१२१-३०॥
असूया चानसूया च धर्माधर्मौ तथैव च। अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह ॥१२-१२१-३१॥
तेजः कर्मणि पाण्डित्यं वाक्षक्तिस्तत्त्वबुद्धिता। एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ॥१२-१२१-३२॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्। भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ॥१२-१२१-३३॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः। राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥१२-१२१-३४॥
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर। सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥१२-१२१-३५॥
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च। बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ॥१२-१२१-३६॥
प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत। अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥१२-१२१-३७॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः। तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥१२-१२१-३८॥
एवम्प्रयोजनश्चैव दण्डः क्षत्रियतां गतः। रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ॥१२-१२१-३९॥
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः। भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ॥१२-१२१-४०॥
अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च। बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥१२-१२१-४१॥
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च। आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥१२-१२१-४२॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च। दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥१२-१२१-४३॥
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः। अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥१२-१२१-४४॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः। कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥१२-१२१-४५॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः। राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ॥१२-१२१-४६॥
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि। दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ॥ राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ॥१२-१२१-४७॥
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च। भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ॥ तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥१२-१२१-४८॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते। मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ॥१२-१२१-४९॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः। ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ॥१२-१२१-५०॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः। व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥१२-१२१-५१॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः। धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ॥१२-१२१-५२॥
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर। त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥१२-१२१-५३॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ॥ यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ॥१२-१२१-५४॥
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः। लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ॥ समनुष्योरगवतां कर्ता चैव स भूतकृत् ॥१२-१२१-५५॥
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः। तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥१२-१२१-५६॥
माता पिता च भ्राता च भार्या चाथ पुरोहितः। नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ॥१२-१२१-५७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.