Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.122
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥१२-१२२-१॥
स राजा धर्मनित्यः सन्सह पत्न्या महातपाः। मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् ॥१२-१२२-२॥
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते। यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥१२-१२२-३॥
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः। मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥१२-१२२-४॥
स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः। ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥१२-१२२-५॥
तं कदाचिददीनात्मा सखा शक्रस्य मानितः। अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥१२-१२२-६॥
सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम्। दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत ॥१२-१२२-७॥
वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत्। अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ॥१२-१२२-८॥
सद्भिराचरितं पूर्वं यथावदनुयायिनम्। अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते ॥१२-१२२-९॥
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्। वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥१२-१२२-१०॥
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया। तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ॥१२-१२२-११॥
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्। किं वापि पूर्वं जागर्ति किं वा परममुच्यते ॥१२-१२२-१२॥
कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः। ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् ॥१२-१२२-१३॥
वसुहोम उवाच॥
शृणु राजन्यथा दण्डः सम्भूतो लोकसङ्ग्रहः। प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥१२-१२२-१४॥
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः। ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् ॥१२-१२२-१५॥
स गर्भं शिरसा देवो वर्षपूगानधारयत्। पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् ॥१२-१२२-१६॥
स क्षुपो नाम सम्भूतः प्रजापतिररिंदम। ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः ॥१२-१२२-१७॥
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ। हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥१२-१२२-१८॥
तस्मिन्नन्तर्हिते चाथ प्रजानां सङ्करोऽभवत्। नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते ॥१२-१२२-१९॥
पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम्। गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् ॥१२-१२२-२०॥
परस्परं विलुम्पन्ते सारमेया इवामिषम्। अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत ॥१२-१२२-२१॥
ततः पितामहो विष्णुं भगवन्तं सनातनम्। सम्पूज्य वरदं देवं महादेवमथाब्रवीत् ॥१२-१२२-२२॥
अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम्। सङ्करो न भवेदत्र यथा वै तद्विधीयताम् ॥१२-१२२-२३॥
ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः। आत्मानमात्मना दण्डमसृजद्देवसत्तमः ॥१२-१२२-२४॥
तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम्। असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता ॥१२-१२२-२५॥
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः। तस्य तस्य निकायस्य चकारैकैकमीशरम् ॥१२-१२२-२६॥
देवानामीश्वरं चक्रे देवं दशशतेक्षणम्। यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥१२-१२२-२७॥
धनानां रक्षसां चापि कुबेरमपि चेश्वरम्। पर्वतानां पतिं मेरुं सरितां च महोदधिम् ॥१२-१२२-२८॥
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्। मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥१२-१२२-२९॥
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः। महात्मानं महादेवं विशालाक्षं सनातनम् ॥१२-१२२-३०॥
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्। तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥१२-१२२-३१॥
वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्। कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥१२-१२२-३२॥
कालं सर्वेशमकरोत्संहारविनयात्मकम्। मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥१२-१२२-३३॥
ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः। सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥१२-१२२-३४॥
तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ। प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥१२-१२२-३५॥
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि। दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥१२-१२२-३६॥
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः। प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ ॥१२-१२२-३७॥
भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम्। ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥१२-१२२-३८॥
क्षुपस्तु मनवे प्रादादादित्यतनयाय च। पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥ तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् ॥१२-१२२-३९॥
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया। दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया ॥१२-१२२-४०॥
व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात्। शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् ॥१२-१२२-४१॥
आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन्। इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ॥१२-१२२-४२॥
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः। प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ॥१२-१२२-४३॥
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः। व्यवसायात्ततस्तेजो जागर्ति परिपालयन् ॥१२-१२२-४४॥
ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः। पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ॥१२-१२२-४५॥
जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि। वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ॥१२-१२२-४६॥
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः। पितामहान्महादेवो जागर्ति भगवाञ्शिवः ॥१२-१२२-४७॥
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः। ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ॥१२-१२२-४८॥
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय। ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः ॥ स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥१२-१२२-४९॥
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च। सर्वसङ्क्षेपको दण्डः पितामहसमः प्रभुः ॥१२-१२२-५०॥
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत। ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः ॥१२-१२२-५१॥
देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः। कपर्दी शङ्करो रुद्रो भवः स्थाणुरुमापतिः ॥१२-१२२-५२॥
इत्येष दण्डो विख्यात आदौ मध्ये तथावरे। भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥१२-१२२-५३॥
भीष्म उवाच॥
इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः। श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः ॥१२-१२२-५४॥
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ। नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥१२-१२२-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.