12.126
भीष्म उवाच॥
ततस्तेषां समस्तानामृषीणामृषिसत्तमः। ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥१२-१२६-१॥
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो। समासादितवान्दिव्यं नरनारायणाश्रमम् ॥१२-१२६-२॥
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा। यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥१२-१२६-३॥
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा। पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥१२-१२६-४॥
रेमाते यत्र तौ नित्यं नरनारायणावृषी। अदूरादाश्रमं कञ्चिद्वासार्थमगमं ततः ॥१२-१२६-५॥
ततश्चीराजिनधरं कृशमुच्चमतीव च। अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥१२-१२६-६॥
अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्। कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ॥१२-१२६-७॥
शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्। ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥१२-१२६-८॥
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च। तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥१२-१२६-९॥
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः। पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥१२-१२६-१०॥
निवेद्य नाम गोत्रं च पितरं च नरर्षभ। प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥१२-१२६-११॥
ततः स कथयामास कथा धर्मार्थसंहिताः। ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥१२-१२६-१२॥
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः। उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥१२-१२६-१३॥
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः। भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः ॥१२-१२६-१४॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः। एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥१२-१२६-१५॥
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः। एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥१२-१२६-१६॥
दुर्लभः स मया द्रष्टुमाशा च महती मम। तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥१२-१२६-१७॥
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः। अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥१२-१२६-१८॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः। उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥१२-१२६-१९॥
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत्। ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥१२-१२६-२०॥
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः। बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥१२-१२६-२१॥
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च। निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥१२-१२६-२२॥
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम्। श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥१२-१२६-२३॥
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः। आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥१२-१२६-२४॥
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्। उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥१२-१२६-२५॥
अपृच्छंश्चैव ते तत्र राजानमपराजितम्। प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥१२-१२६-२६॥
राजोवाच॥
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः। भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥१२-१२६-२७॥
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ। न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥१२-१२६-२८॥
ऋषभ उवाच॥
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः। तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥१२-१२६-२९॥
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः। आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥१२-१२६-३०॥
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन। अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥१२-१२६-३१॥
आशा हि पुरुषं बालं लालापयति तस्थुषी। तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥१२-१२६-३२॥
राजोवाच॥
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्। ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥१२-१२६-३३॥
ऋषभ उवाच॥
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्। राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ॥१२-१२६-३४॥
कृशत्वे न समं राजन्नाशाया विद्यते नृप। तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥१२-१२६-३५॥
राजोवाच॥
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव। दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ॥१२-१२६-३६॥
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम। तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥१२-१२६-३७॥
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्। यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥१२-१२६-३८॥
कृशतनुरुवाच॥
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात्। सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥१२-१२६-३९॥
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः। सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥१२-१२६-४०॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा। प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥१२-१२६-४१॥
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता। तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥१२-१२६-४२॥
ऋषभ उवाच॥
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः। संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥१२-१२६-४३॥
राजोवाच॥
प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम्। वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥१२-१२६-४४॥
ऋषभ उवाच॥
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः। सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥१२-१२६-४५॥
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः। पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥१२-१२६-४६॥
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम्। आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥१२-१२६-४७॥
संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्। विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥१२-१२६-४८॥
एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम्। आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥१२-१२६-४९॥
भीष्म उवाच॥
स तत्रोक्तो महाराज ऋषभेण महात्मना। सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥१२-१२६-५०॥
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम। स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥१२-१२६-५१॥
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह। श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥१२-१२६-५२॥