12.127
युधिष्ठिर उवाच॥
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि। तस्मात्कथय भूयस्त्वं धर्ममेव पितामह ॥१२-१२७-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गौतमस्य च संवादं यमस्य च महात्मनः ॥१२-१२७-२॥
पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान्। उवास गौतमो यत्र कालं तदपि मे शृणु ॥१२-१२७-३॥
षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः। तमुग्रतपसं युक्तं तपसा भावितं मुनिम् ॥१२-१२७-४॥
उपयातो नरव्याघ्र लोकपालो यमस्तदा। तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् ॥१२-१२७-५॥
स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा। प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः ॥१२-१२७-६॥
तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम्। न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ॥१२-१२७-७॥
गौतम उवाच॥
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्। कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् ॥१२-१२७-८॥
यम उवाच॥
तपःशौचवता नित्यं सत्यधर्मरतेन च। मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥१२-१२७-९॥
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः। तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् ॥१२-१२७-१०॥