12.128
युधिष्ठिर उवाच॥
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः। राज्ञः सङ्क्षीणकोशस्य बलहीनस्य भारत ॥१२-१२८-१॥
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः। राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥१२-१२८-२॥
परचक्राभियातस्य दुर्बलस्य बलीयसा। असंविहितराष्ट्रस्य देशकालावजानतः ॥१२-१२८-३॥
अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात्। जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् ॥१२-१२८-४॥
भीष्म उवाच॥
गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ। अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर ॥१२-१२८-५॥
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ। श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ॥१२-१२८-६॥
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः। तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया ॥१२-१२८-७॥
उपायं धर्मबहुलं यात्रार्थं शृणु भारत। नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ॥ दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः ॥१२-१२८-८॥
अनुगम्य गतीनां च सर्वासामेव निश्चयम्। यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते ॥ तथा तथा विजानाति विज्ञानं चास्य रोचते ॥१२-१२८-९॥
अविज्ञानादयोगश्च पुरुषस्योपजायते। अविज्ञानादयोगो हि योगो भूतिकरः पुनः ॥१२-१२८-१०॥
अशङ्कमानो वचनमनसूयुरिदं शृणु। राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः ॥१२-१२८-११॥
कोशं सञ्जनयेद्राजा निर्जलेभ्यो यथा जलम्। कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् ॥१२-१२८-१२॥
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः। अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत ॥१२-१२८-१३॥
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी। धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति ॥१२-१२८-१४॥
यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते। तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥१२-१२८-१५॥
अधर्मो जायते यस्मिन्निति वै कवयो विदुः। अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे ॥१२-१२८-१६॥
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा। तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥१२-१२८-१७॥
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः। सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥१२-१२८-१८॥
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे। उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः ॥१२-१२८-१९॥
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति। अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत ॥१२-१२८-२०॥
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्। अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः ॥१२-१२८-२१॥
पीडितस्य किमद्वारमुत्पथो निधृतस्य वा। अद्वारतः प्रद्रवति यदा भवति पीडितः ॥१२-१२८-२२॥
तस्य कोशबलज्यान्या सर्वलोकपराभवः। भैक्षचर्या न विहिता न च विट्शूद्रजीविका ॥१२-१२८-२३॥
स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः। वहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥१२-१२८-२४॥
आपद्गतेन धर्माणामन्यायेनोपजीवनम्। अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥१२-१२८-२५॥
क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा। आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन ॥१२-१२८-२६॥
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः। तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥१२-१२८-२७॥
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित्। अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥१२-१२८-२८॥
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्। विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥१२-१२८-२९॥
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि। नित्यमेवेह कर्तव्या एष धर्मः सनातनः ॥१२-१२८-३०॥
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति। राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ॥१२-१२८-३१॥
कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम्। न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा ॥१२-१२८-३२॥
बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः। अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥१२-१२८-३३॥
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति। अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः ॥१२-१२८-३४॥
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्। तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥१२-१२८-३५॥
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्। तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति ॥१२-१२८-३६॥
अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु। एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ॥१२-१२८-३७॥
अर्थार्थमन्यद्भवति विपरीतमथापरम्। अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् ॥ एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ॥१२-१२८-३८॥
यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः। यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् ॥१२-१२८-३९॥
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्। यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ॥१२-१२८-४०॥
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि। ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् ॥१२-१२८-४१॥
एवं कोशस्य महतो ये नराः परिपन्थिनः। तानहत्वा न पश्यामि सिद्धिमत्र परन्तप ॥१२-१२८-४२॥
धनेन जयते लोकावुभौ परमिमं तथा। सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥१२-१२८-४३॥
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्। न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥१२-१२८-४४॥
नैतौ सम्भवतो राजन्कथञ्चिदपि भारत। न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥१२-१२८-४५॥
यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन। ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः ॥१२-१२८-४६॥
न च राज्यसमो धर्मः कश्चिदस्ति परन्तप। धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा ॥१२-१२८-४७॥
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः। बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसञ्चयान् ॥१२-१२८-४८॥
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्। सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् ॥ कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् ॥१२-१२८-४९॥