Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.129
युधिष्ठिर उवाच॥
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु। विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ॥१२-१२९-१॥
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत। असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः ॥१२-१२९-२॥
परचक्राभियातस्य दुर्बलस्य बलीयसा। आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥१२-१२९-३॥
भीष्म उवाच॥
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः। जवेन सन्धिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ॥१२-१२९-४॥
अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः। आत्मनः संनिरोधेन सन्धिं तेनाभियोजयेत् ॥१२-१२९-५॥
अपास्य राजधानीं वा तरेदन्येन वापदम्। तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् ॥१२-१२९-६॥
यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः। कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥१२-१२९-७॥
अवरोधाज्जुगुप्सेत का सपत्नधने दया। न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ॥१२-१२९-८॥
युधिष्ठिर उवाच॥
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते। क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ॥१२-१२९-९॥
भीष्म उवाच॥
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः। पदापनयनं क्षिप्रमेतावत्साम्परायिकम् ॥१२-१२९-१०॥
अनुरक्तेन पुष्टेन हृष्टेन जगतीपते। अल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥१२-१२९-११॥
हतो वा दिवमारोहेद्विजयी क्षितिमावसेत्। युद्धे तु सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥१२-१२९-१२॥
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च। विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ॥१२-१२९-१३॥
अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत्। विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ॥१२-१२९-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.