Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.129
Library: Just as the king protects the kingdom in times of calamity with abundant resources, so too should the kingdom protect the king in times of adversity.
युधिष्ठिर उवाच॥
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु। विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ॥१२-१२९-१॥
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत। असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः ॥१२-१२९-२॥
परचक्राभियातस्य दुर्बलस्य बलीयसा। आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥१२-१२९-३॥
भीष्म उवाच॥
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः। जवेन सन्धिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ॥१२-१२९-४॥
अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः। आत्मनः संनिरोधेन सन्धिं तेनाभियोजयेत् ॥१२-१२९-५॥
अपास्य राजधानीं वा तरेदन्येन वापदम्। तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् ॥१२-१२९-६॥
यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः। कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥१२-१२९-७॥
अवरोधाज्जुगुप्सेत का सपत्नधने दया। न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ॥१२-१२९-८॥
युधिष्ठिर उवाच॥
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते। क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ॥१२-१२९-९॥
भीष्म उवाच॥
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः। पदापनयनं क्षिप्रमेतावत्साम्परायिकम् ॥१२-१२९-१०॥
अनुरक्तेन पुष्टेन हृष्टेन जगतीपते। अल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥१२-१२९-११॥
हतो वा दिवमारोहेद्विजयी क्षितिमावसेत्। युद्धे तु सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥१२-१२९-१२॥
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च। विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ॥१२-१२९-१३॥
अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत्। विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ॥१२-१२९-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.