12.142
भीष्म उवाच॥
अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः। दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥१२-१४२-१॥
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत। प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥१२-१४२-२॥
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया। किं नु तत्कारणं येन साद्यापि न निवर्तते ॥१२-१४२-३॥
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने। तया विरहितं हीदं शून्यमद्य गृहं मम ॥१२-१४२-४॥
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा। अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥१२-१४२-५॥
पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी। सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥१२-१४२-६॥
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता। यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥१२-१४२-७॥
भार्या हि परमो नाथः पुरुषस्येह पठ्यते। असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥१२-१४२-८॥
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च। नास्ति भार्यासमं किञ्चिन्नरस्यार्तस्य भेषजम् ॥१२-१४२-९॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः। नास्ति भार्यासमो लोके सहायो धर्मसाधनः ॥१२-१४२-१०॥
एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै। गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ॥१२-१४२-११॥
न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति। अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ॥१२-१४२-१२॥
इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा। कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥१२-१४२-१३॥
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा। शरणागतसन्त्राता भव कान्त विशेषतः ॥१२-१४२-१४॥
एष शाकुनिकः शेते तव वासं समाश्रितः। शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥१२-१४२-१५॥
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्। शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥१२-१४२-१६॥
यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः। सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥१२-१४२-१७॥
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते। स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥१२-१४२-१८॥
स त्वं सन्तानवानद्य पुत्रवानपि च द्विज। तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ॥ पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥१२-१४२-१९॥
इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी। अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ॥१२-१४२-२०॥
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्। हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥१२-१४२-२१॥
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा। पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥१२-१४२-२२॥
उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम्। सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥१२-१४२-२३॥
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि। प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥१२-१४२-२४॥
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः। पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥१२-१४२-२५॥
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी। तस्य नायं न च परो लोको भवति धर्मतः ॥१२-१४२-२६॥
तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि। तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥१२-१४२-२७॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्। बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥१२-१४२-२८॥
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले। यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥१२-१४२-२९॥
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्। ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ॥१२-१४२-३०॥
सुसंदीप्तं महत्कृत्वा तमाह शरणागतम्। प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥१२-१४२-३१॥
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्। अग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ॥१२-१४२-३२॥
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्। तद्वचः स प्रतिश्रुत्य वाक्यमाह विहङ्गमः ॥१२-१४२-३३॥
न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम्। उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥१२-१४२-३४॥
सञ्चयो नास्ति चास्माकं मुनीनामिव कानने। इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥१२-१४२-३५॥
कथं नु खलु कर्तव्यमिति चिन्तापरः सदा। बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥१२-१४२-३६॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातकम्। उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥१२-१४२-३७॥
इत्युक्त्वा शुष्कपर्णैः स सम्प्रज्वाल्य हुताशनम्। हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥१२-१४२-३८॥
देवानां च मुनीनां च पितॄणां च महात्मनाम्। श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥१२-१४२-३९॥
कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते। निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥१२-१४२-४०॥
ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव। तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥१२-१४२-४१॥
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम्। चिन्तयामास मनसा किमिदं नु कृतं मया ॥१२-१४२-४२॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा। अधर्मः सुमहान्घोरो भविष्यति न संशयः ॥१२-१४२-४३॥
एवं बहुविधं भूरि विललाप स लुब्धकः। गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥१२-१४२-४४॥