Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.150
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च ॥१२-१५०-१॥
हिमवन्तं समासाद्य महानासीद्वनस्पतिः। वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् ॥१२-१५०-२॥
तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः। विश्रमन्ति महाबाहो तथान्या मृगजातयः ॥१२-१५०-३॥
नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः। शुकशारिकसङ्घुष्टः फलवान्पुष्पवानपि ॥१२-१५०-४॥
सार्थिका वणिजश्चापि तापसाश्च वनौकसः। वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे ॥१२-१५०-५॥
तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः। अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥१२-१५०-६॥
अहो नु रमणीयस्त्वमहो चासि मनोरमः। प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले ॥१२-१५०-७॥
सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः। वसन्ति तव संहृष्टा मनोहरतरास्तथा ॥१२-१५०-८॥
तव शाखा महाशाख स्कन्धं च विपुलं तथा। न वै प्रभग्नान्पश्यामि मारुतेन कथञ्चन ॥१२-१५०-९॥
किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत्। त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् ॥१२-१५०-१०॥
विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि। पर्वतानां च शिखराण्याचालयति वेगवान् ॥१२-१५०-११॥
शोषयत्येव पातालं विवान्गन्धवहः शुचिः। ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह ॥१२-१५०-१२॥
त्वां संरक्षेत पवनः सखित्वेन न संशयः। तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि ॥१२-१५०-१३॥
इदं च रमणीयं ते प्रतिभाति वनस्पते। यदिमे विहगास्तात रमन्ते मुदितास्त्वयि ॥१२-१५०-१४॥
एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः। पुष्पसंमोदने काले वाशतां सुमनोहरम् ॥१२-१५०-१५॥
तथेमे मुदिता नागाः स्वयूथकुलशोभिनः। घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले ॥१२-१५०-१६॥
तथैव मृगजातीभिरन्याभिरुपशोभसे। तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम ॥१२-१५०-१७॥
ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि। त्रिविष्टपसमं मन्ये तवायतनमेव ह ॥१२-१५०-१८॥
बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः। पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥१२-१५०-१९॥
न्यग्भावं परमं वायोः शल्मले त्वमुपागतः। तवाहमस्मीति सदा येन रक्षति मारुतः ॥१२-१५०-२०॥
न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम्। यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः ॥१२-१५०-२१॥
त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा। वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥१२-१५०-२२॥
शल्मलिरुवाच॥
न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत्। परमेष्ठी तथा नैव येन रक्षति मानिलः ॥१२-१५०-२३॥
मम तेजोबलं वायोर्भीममपि हि नारद। कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥१२-१५०-२४॥
आगच्छन्परमो वायुर्मया विष्टम्भितो बलात्। रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किञ्चन ॥१२-१५०-२५॥
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः। तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥१२-१५०-२६॥
नारद उवाच॥
शल्मले विपरीतं ते दर्शनं नात्र संशयः। न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥१२-१५०-२७॥
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः। न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥१२-१५०-२८॥
यद्धि किञ्चिदिह प्राणि शल्मले चेष्टते भुवि। सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥१२-१५०-२९॥
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः। असम्यगायतो भूयश्चेष्टते विकृतो नृषु ॥१२-१५०-३०॥
स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्। न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् ॥१२-१५०-३१॥
असारश्चासि दुर्बुद्धे केवलं बहु भाषसे। क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले ॥१२-१५०-३२॥
मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति। ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥१२-१५०-३३॥
चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः। वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः ॥१२-१५०-३४॥
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः। ते हि जानन्ति वायोश्च बलमात्मन एव च ॥१२-१५०-३५॥
तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः। त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् ॥१२-१५०-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.