Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.160
वैशम्पायन उवाच॥
कथान्तरमथासाद्य खड्गयुद्धविशारदः। नकुलः शरतल्पस्थमिदमाह पितामहम् ॥१२-१६०-१॥
धनुः प्रहरणं श्रेष्ठमिति वादः पितामह। मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥१२-१६०-२॥
विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु। खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥१२-१६०-३॥
शरासनधरांश्चैव गदाशक्तिधरांस्तथा। एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥१२-१६०-४॥
अत्र मे संशयश्चैव कौतूहलमतीव च। किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥१२-१६०-५॥
कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा। पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥१२-१६०-६॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः। सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ॥१२-१६०-७॥
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्। शिक्षान्यायोपसम्पन्नं द्रोणशिष्याय पृच्छते ॥१२-१६०-८॥
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः। शरतल्पगतो भीष्मो नकुलाय महात्मने ॥१२-१६०-९॥
तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि। प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥१२-१६०-१०॥
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्। निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥१२-१६०-११॥
तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम्। निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥१२-१६०-१२॥
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्। आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ॥१२-१६०-१३॥
नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा। संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ॥१२-१६०-१४॥
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः। जनयामास भगवान्पुत्रानुत्तमतेजसः ॥१२-१६०-१५॥
मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम्। वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥१२-१६०-१६॥
प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत्। ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥१२-१६०-१७॥
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा। गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥१२-१६०-१८॥
पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः। नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥१२-१६०-१९॥
औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः। जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ॥१२-१६०-२०॥
भूतसर्गमिमं कृत्वा सर्वलोकपितामहः। शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ॥१२-१६०-२१॥
तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः। आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ॥१२-१६०-२२॥
भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः। वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥१२-१६०-२३॥
ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा। घृताचाः सोमवायव्या वैखानसमरीचिपाः ॥१२-१६०-२४॥
अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः। वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥१२-१६०-२५॥
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्। धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥१२-१६०-२६॥
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः। शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ॥१२-१६०-२७॥
एते चान्ये च बहवः सगणा दैत्यदानवाः। धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥१२-१६०-२८॥
सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम्। इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥१२-१६०-२९॥
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत। त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ॥ न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ॥१२-१६०-३०॥
अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः। तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ॥१२-१६०-३१॥
शतयोजनविस्तारे मणिमुक्ताचयाचिते। तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ॥ तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥१२-१६०-३२॥
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः। विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥१२-१६०-३३॥
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः। मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः ॥१२-१६०-३४॥
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम्। वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥१२-१६०-३५॥
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्। तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥१२-१६०-३६॥
चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्। विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ॥१२-१६०-३७॥
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम्। प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ॥१२-१६०-३८॥
तस्मिन्नुत्पतमाने च प्रचचाल वसुन्धरा। तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः ॥१२-१६०-३९॥
पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः। अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥१२-१६०-४०॥
ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम्। महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥१२-१६०-४१॥
मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान्। रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥१२-१६०-४२॥
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः। विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥१२-१६०-४३॥
ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे। ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ॥१२-१६०-४४॥
ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः। प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ॥१२-१६०-४५॥
चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम्। ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ॥ विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥१२-१६०-४६॥
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्। नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ॥ शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ॥१२-१६०-४७॥
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा। सम्प्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् ॥१२-१६०-४८॥
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्। चचार विविधान्मार्गान्महाबलपराक्रमः ॥ विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ॥१२-१६०-४९॥
तस्य नादं विनदतो महाहासं च मुञ्चतः। बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥१२-१६०-५०॥
तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः। निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥१२-१६०-५१॥
अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः। घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ॥१२-१६०-५२॥
ततस्तद्दानवानीकं सम्प्रणेतारमच्युतम्। रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ॥१२-१६०-५३॥
चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम्। तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥१२-१६०-५४॥
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि। अचरद्दैत्यसङ्घेषु रुद्रोऽग्निरिव कक्षगः ॥१२-१६०-५५॥
असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः। सम्प्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ॥१२-१६०-५६॥
अपरे दानवा भग्ना रुद्रघातावपीडिताः। अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे ॥१२-१६०-५७॥
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा। अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ॥१२-१६०-५८॥
तस्मिन्महति संवृत्ते समरे भृशदारुणे। बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ॥१२-१६०-५९॥
दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः। समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥१२-१६०-६०॥
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा। रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥१२-१६०-६१॥
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत्। रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ॥१२-१६०-६२॥
ततो महर्षयः सर्वे सर्वे देवगणास्तथा। जयेनाद्भुतकल्पेन देवदेवमथार्चयन् ॥१२-१६०-६३॥
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम्। असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥१२-१६०-६४॥
विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम्। महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु ॥१२-१६०-६५॥
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक। मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ॥१२-१६०-६६॥
ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः। असिना धर्मगर्भेण पालयस्व प्रजा इति ॥१२-१६०-६७॥
धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात्। विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥१२-१६०-६८॥
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा। व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ॥१२-१६०-६९॥
असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत्। असेरेव प्रमाणानि परिमाणव्यतिक्रमात् ॥१२-१६०-७०॥
अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः। मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥१२-१६०-७१॥
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः। आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ॥१२-१६०-७२॥
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान्। आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ॥१२-१६०-७३॥
भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम्। तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ॥१२-१६०-७४॥
ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः। धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ॥१२-१६०-७५॥
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः। रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥१२-१६०-७६॥
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्। हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥१२-१६०-७७॥
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः। यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥१२-१६०-७८॥
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि। रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ॥ ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥१२-१६०-७९॥
कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम्। रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥१२-१६०-८०॥
असेरष्टौ च नामानि रहस्यानि निबोध मे। पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥१२-१६०-८१॥
असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः। श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥१२-१६०-८२॥
अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत। महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥१२-१६०-८३॥
पृथुस्तूत्पादयामास धनुराद्यमरिंदम। तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥१२-१६०-८४॥
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि। असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥१२-१६०-८५॥
इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः। असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥१२-१६०-८६॥
सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम्। लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥१२-१६०-८७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.