12.165
भीष्म उवाच॥
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम्। पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥१२-१६५-१॥
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम्। न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥१२-१६५-२॥
ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च। गोत्रमात्रविदो राजा निवासं समपृच्छत ॥१२-१६५-३॥
क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते। तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥१२-१६५-४॥
गौतम उवाच॥
मध्यदेशप्रसूतोऽहं वासो मे शबरालये। शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥१२-१६५-५॥
भीष्म उवाच॥
ततो राजा विममृशे कथं कार्यमिदं भवेत्। कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ॥१२-१६५-६॥
अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः। सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥१२-१६५-७॥
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा। भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः ॥१२-१६५-८॥
कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः। तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ॥१२-१६५-९॥
ततः सहस्रं विप्राणां विदुषां समलङ्कृतम्। स्नातानामनुसम्प्राप्तमहतक्षौमवाससाम् ॥१२-१६५-१०॥
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते। यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥१२-१६५-११॥
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात्। भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ॥१२-१६५-१२॥
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः। व्यराजन्त महाराज नक्षत्रपतयो यथा ॥१२-१६५-१३॥
ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः। वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ॥१२-१६५-१४॥
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः। ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ॥१२-१६५-१५॥
विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः सम्प्रयच्छति। शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥१२-१६५-१६॥
सुवर्णं रजतं चैव मणीनथ च मौक्तिकम्। वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ॥१२-१६५-१७॥
रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत। ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥१२-१६५-१८॥
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः। येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ॥ तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥१२-१६५-१९॥
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि। यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥१२-१६५-२०॥
ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः। ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ॥१२-१६५-२१॥
ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः। नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ॥१२-१६५-२२॥
अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित्। राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥१२-१६५-२३॥
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः। गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥१२-१६५-२४॥
कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत्। न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ॥१२-१६५-२५॥
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः। स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥१२-१६५-२६॥
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः। पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥१२-१६५-२७॥
स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा। हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥ गृहीतो लोभमोहाद्वै दूरं च गमनं मम ॥१२-१६५-२८॥
न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम। किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ॥१२-१६५-२९॥
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन। कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥१२-१६५-३०॥
अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम। इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥१२-१६५-३१॥