12.166
Library: King Virupaksha punishes the cruel Gautama by cutting him into pieces and giving the meat to robbers. Even robbers refuse to eat his meat.
भीष्म उवाच॥
अथ तत्र महार्चिष्माननलो वातसारथिः। तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥१२-१६६-१॥
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा। कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् ॥१२-१६६-२॥
ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम्। निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥१२-१६६-३॥
स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा। तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥१२-१६६-४॥
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम्। न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ॥१२-१६६-५॥
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा। मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः ॥१२-१६६-६॥
उभे द्विरात्रं सन्ध्ये वै नाभ्यगात्स ममालयम्। तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् ॥१२-१६६-७॥
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः। तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥१२-१६६-८॥
दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया। निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः ॥१२-१६६-९॥
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम। पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ॥ ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् ॥१२-१६६-१०॥
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ। न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः ॥१२-१६६-११॥
स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः। त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ॥१२-१६६-१२॥
ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा। राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् ॥१२-१६६-१३॥
तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः। राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः ॥ कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् ॥१२-१६६-१४॥
रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः। आर्तनादश्च सुमहानभूत्तस्य निवेशने ॥१२-१६६-१५॥
सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्। अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति ॥१२-१६६-१६॥
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः। पापाचारः पापकर्मा पापात्मा पापनिश्चयः ॥ हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ॥१२-१६६-१७॥
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः। नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत ॥१२-१६६-१८॥
दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः। इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः ॥१२-१६६-१९॥
शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम्। न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ॥१२-१६६-२०॥
एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्। दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ॥१२-१६६-२१॥
इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः। छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ॥१२-१६६-२२॥
दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्। क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते ॥१२-१६६-२३॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा। निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥१२-१६६-२४॥
मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः। क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः ॥१२-१६६-२५॥