12.170
युधिष्ठिर उवाच॥
धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः। सुखदुःखागमस्तेषां कः कथं वा पितामह ॥१२-१७०-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह ॥१२-१७०-२॥
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः। क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥१२-१७०-३॥
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्। विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥१२-१७०-४॥
तयोरेकतरे मार्गे यद्येनमभिसंनयेत्। न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत् ॥१२-१७०-५॥
न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे। अकामात्मापि हि सदा धुरमुद्यम्य चैव हि ॥१२-१७०-६॥
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि। अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव हि ॥१२-१७०-७॥
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम्। अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् ॥१२-१७०-८॥
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः। अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये ॥१२-१७०-९॥
आकिञ्चन्यं च राज्यं च तुलया समतोलयम्। अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥१२-१७०-१०॥
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम्। नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥१२-१७०-११॥
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः। प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः ॥१२-१७०-१२॥
तं वै सदा कामचरमनुपस्तीर्णशायिनम्। बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥१२-१७०-१३॥
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः। तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥१२-१७०-१४॥
निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता। कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥१२-१७०-१५॥
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्। सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥१२-१७०-१६॥
अथैनं रूपमानश्च धनमानश्च विन्दति। अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ॥ इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥१२-१७०-१७॥
स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान्। परिक्षीणः परस्वानामादानं साधु मन्यते ॥१२-१७०-१८॥
तमतिक्रान्तमर्यादमाददानं ततस्ततः। प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥१२-१७०-१९॥
एवमेतानि दुःखानि तानि तानीह मानवम्। विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च ॥१२-१७०-२०॥
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्। लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥१२-१७०-२१॥
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्। नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥१२-१७०-२२॥
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्। शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥१२-१७०-२३॥