12.187
युधिष्ठिर उवाच॥
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते। यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह ॥१२-१८७-१॥
भीष्म उवाच॥
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि। तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् ॥१२-१८७-२॥
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति। फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् ॥१२-१८७-३॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥१२-१८७-४॥
ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः। महाभूतानि भूतेषु सागरस्योर्मयो यथा ॥१२-१८७-५॥
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः। तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥१२-१८७-६॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्। अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति ॥१२-१८७-७॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्। वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् ॥१२-१८७-८॥
रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते। रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥१२-१८७-९॥
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः। महाभूतानि पञ्चैव षष्ठं तु मन उच्यते ॥१२-१८७-१०॥
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत। सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥१२-१८७-११॥
चक्षुरालोकनायैव संशयं कुरुते मनः। बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥१२-१८७-१२॥
ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति। एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् ॥१२-१८७-१३॥
पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः। तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान् ॥१२-१८७-१४॥
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्। समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥१२-१८७-१५॥
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि। मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥१२-१८७-१६॥
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्। प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ॥१२-१८७-१७॥
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते। जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥१२-१८७-१८॥
त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्। येन सङ्कल्पयत्यर्थं किञ्चिद्भवति तन्मनः ॥१२-१८७-१९॥
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा। पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥१२-१८७-२०॥
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते। कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥१२-१८७-२१॥
न सुखेन न दुःखेन कदाचिदपि वर्तते। एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥१२-१८७-२२॥
सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते। सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥१२-१८७-२३॥
अतिभावगता बुद्धिर्भावे मनसि वर्तते। प्रवर्तमानं हि रजस्तद्भावमनुवर्तते ॥१२-१८७-२४॥
इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा। प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः ॥१२-१८७-२५॥
ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु। इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ॥१२-१८७-२६॥
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता। सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ॥१२-१८७-२७॥
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते। सात्त्विकी राजसी चैव तामसी चेति भारत ॥१२-१८७-२८॥
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः। तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ ॥१२-१८७-२९॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा ॥१२-१८७-३०॥
अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः। प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् ॥१२-१८७-३१॥
अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत्। अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥१२-१८७-३२॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता। कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः ॥१२-१८७-३३॥
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा। लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ॥१२-१८७-३४॥
अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता। कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः ॥१२-१८७-३५॥
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्। मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥१२-१८७-३६॥
सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः। सृजते तु गुणानेक एको न सृजते गुणान् ॥१२-१८७-३७॥
मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सदा। अन्योन्यमन्यौ च यथा सम्प्रयोगस्तथा तयोः ॥१२-१८७-३८॥
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा। यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ ॥१२-१८७-३९॥
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः। परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा ॥१२-१८७-४०॥
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः। निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥१२-१८७-४१॥
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति। सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ॥१२-१८७-४२॥
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन। सत्त्वं मनः संसृजति न गुणान्वै कदाचन ॥१२-१८७-४३॥
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति। तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥१२-१८७-४४॥
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः। सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् ॥१२-१८७-४५॥
यथा वारिचरः पक्षी लिप्यमानो न लिप्यते। एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥१२-१८७-४६॥
एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः। अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ॥१२-१८७-४७॥
स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान्। ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः ॥१२-१८७-४८॥
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते। प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ॥१२-१८७-४९॥
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे। उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति ॥१२-१८७-५०॥
इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्। विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥१२-१८७-५१॥
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः। अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा ॥१२-१८७-५२॥
महानदीं हि पारज्ञस्तप्यते न तरन्यथा। एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥१२-१८७-५३॥
एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्। अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः ॥१२-१८७-५४॥
त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते। अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥१२-१८७-५५॥
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः। तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः ॥१२-१८७-५६॥
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्। विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥१२-१८७-५७॥
न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत्। न हि गतिरधिकास्ति कस्य चि; त्सति हि गुणे प्रवदन्त्यतुल्यताम् ॥१२-१८७-५८॥
यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्। नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः ॥१२-१८७-५९॥
लोक आतुरजनान्विराविण; स्तत्तदेव बहु पश्य शोचतः। तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा ॥१२-१८७-६०॥