Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.188
भीष्म उवाच॥
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्। यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः ॥१२-१८८-१॥
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः। महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥१२-१८८-२॥
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः। जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः ॥१२-१८८-३॥
निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः। असङ्गीन्यविवादीनि मनःशान्तिकराणि च ॥१२-१८८-४॥
तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः। पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥१२-१८८-५॥
शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत्। रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥१२-१८८-६॥
घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित्। पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥१२-१८८-७॥
ततो मनसि संसज्य पञ्चवर्गं विचक्षणः। समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः ॥१२-१८८-८॥
विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम्। पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम् ॥१२-१८८-९॥
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्। एष ध्यानपथः पूर्वो मया समनुवर्णितः ॥१२-१८८-१०॥
तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम्। स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा ॥१२-१८८-११॥
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः। एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि ॥१२-१८८-१२॥
समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति। पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ॥१२-१८८-१३॥
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः। समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥१२-१८८-१४॥
विचारश्च वितर्कश्च विवेकश्चोपजायते। मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥१२-१८८-१५॥
मनसा क्लिश्यमानस्तु समाधानं च कारयेत्। न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥१२-१८८-१६॥
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः। सहसा वारिणा सिक्ता न यान्ति परिभावनाम् ॥१२-१८८-१७॥
किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्। क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥१२-१८८-१८॥
एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत्। संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति ॥१२-१८८-१९॥
स्वयमेव मनश्चैव पञ्चवर्गश्च भारत। पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति ॥१२-१८८-२०॥
न तत्पुरुषकारेण न च दैवेन केनचित्। सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥१२-१८८-२१॥
सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि। गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥१२-१८८-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.