Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.189
युधिष्ठिर उवाच॥
चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च। नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः ॥१२-१८९-१॥
श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते। संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥१२-१८९-२॥
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत। किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥१२-१८९-३॥
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ। जापका इति किं चैतत्साङ्ख्ययोगक्रियाविधिः ॥१२-१८९-४॥
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते। एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥१२-१८९-५॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥१२-१८९-६॥
संन्यास एव वेदान्ते वर्तते जपनं प्रति। वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ ॥ मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ॥१२-१८९-७॥
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते। मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः ॥१२-१८९-८॥
सत्यमग्निपरीचारो विविक्तानां च सेवनम्। ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥१२-१८९-९॥
विषयप्रतिसंहारो मितजल्पस्तथा शमः। एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु ॥१२-१८९-१०॥
यथा निवर्तते कर्म जपतो ब्रह्मचारिणः। एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् ॥ त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम् ॥१२-१८९-११॥
कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी। चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥१२-१८९-१२॥
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत्। साम्यमुत्पाद्य मनसो मनस्येव मनो दधत् ॥१२-१८९-१३॥
तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम्। संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः ॥१२-१८९-१४॥
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्। शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ॥१२-१८९-१५॥
अरागमोहो निर्द्वंद्वो न शोचति न सज्जते। न कर्ताकरणीयानां न कार्याणामिति स्थितिः ॥१२-१८९-१६॥
न चाहङ्कारयोगेन मनः प्रस्थापयेत्क्वचित्। न चात्मग्रहणे युक्तो नावमानी न चाक्रियः ॥१२-१८९-१७॥
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः। ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ॥१२-१८९-१८॥
स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी। निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥१२-१८९-१९॥
अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्। उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥१२-१८९-२०॥
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः। अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते ॥१२-१८९-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.