12.190
युधिष्ठिर उवाच॥
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह। एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥१२-१९०-१॥
भीष्म उवाच॥
शृणुष्वावहितो राजञ्जापकानां गतिं विभो। यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥१२-१९०-२॥
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः। एकदेशक्रियश्चात्र निरयं स निगच्छति ॥१२-१९०-३॥
अवज्ञानेन कुरुते न तुष्यति न शोचति। ईदृशो जापको याति निरयं नात्र संशयः ॥१२-१९०-४॥
अहङ्कारकृतश्चैव सर्वे निरयगामिनः। परावमानी पुरुषो भविता निरयोपगः ॥१२-१९०-५॥
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः। यत्राभिध्यां स कुरुते तं वै निरयमृच्छति ॥१२-१९०-६॥
अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते। स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥१२-१९०-७॥
रागेण जापको जप्यं कुरुते तत्र मोहितः। यत्रास्य रागः पतति तत्र तत्रोपजायते ॥१२-१९०-८॥
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति। चलामेव गतिं याति निरयं वाधिगच्छति ॥१२-१९०-९॥
अकृतप्रज्ञको बालो मोहं गच्छति जापकः। स मोहान्निरयं याति तत्र गत्वानुशोचति ॥१२-१९०-१०॥
दृढग्राही करोमीति जप्यं जपति जापकः। न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥१२-१९०-११॥
युधिष्ठिर उवाच॥
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्। सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् ॥१२-१९०-१२॥
भीष्म उवाच॥
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः। प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥१२-१९०-१३॥