Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.192
युधिष्ठिर उवाच॥
कालमृत्युयमानां च ब्राह्मणस्य च सत्तम। विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥१२-१९२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥१२-१९२-२॥
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे। यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ॥१२-१९२-३॥
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः। षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥१२-१९२-४॥
तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च। वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥१२-१९२-५॥
सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन्। तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥१२-१९२-६॥
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल। जप्यमावर्तयंस्तूष्णीं न च तां किञ्चिदब्रवीत् ॥१२-१९२-७॥
तस्यानुकम्पया देवी प्रीता समभवत्तदा। वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥१२-१९२-८॥
समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा। पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥१२-१९२-९॥
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम। यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ॥१२-१९२-१०॥
सावित्र्युवाच॥
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते। प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥१२-१९२-११॥
भीष्म उवाच॥
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्। जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥१२-१९२-१२॥
मनसश्च समाधिर्मे वर्धेताहरहः शुभे। तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥१२-१९२-१३॥
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया। निरयं नैव यातासि यत्र याता द्विजर्षभाः ॥१२-१९२-१४॥
यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्। साधये भविता चैतद्यत्त्वयाहमिहार्थिता ॥१२-१९२-१५॥
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति। कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ॥ भविता च विवादोऽत्र तव तेषां च धर्मतः ॥१२-१९२-१६॥
एवमुक्त्वा भगवती जगाम भवनं स्वकम्। ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ॥१२-१९२-१७॥
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः। साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥१२-१९२-१८॥
धर्म उवाच॥
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः। जप्यस्य च फलं यत्ते सम्प्राप्तं तच्च मे शृणु ॥१२-१९२-१९॥
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः। देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि ॥१२-१९२-२०॥
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्। त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ॥१२-१९२-२१॥
ब्राह्मण उवाच॥
कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम्। बहुदुःखसुखं देहं नोत्सृजेयमहं विभो ॥१२-१९२-२२॥
धर्म उवाच॥
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव। स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ॥१२-१९२-२३॥
ब्राह्मण उवाच॥
न रोचये स्वर्गवासं विना देहादहं विभो। गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ॥१२-१९२-२४॥
धर्म उवाच॥
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव। गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥१२-१९२-२५॥
ब्राह्मण उवाच॥
रमे जपन्महाभाग कृतं लोकैः सनातनैः। सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ॥१२-१९२-२६॥
धर्म उवाच॥
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज। एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥१२-१९२-२७॥
भीष्म उवाच॥
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो। ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् ॥१२-१९२-२८॥
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च। फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥१२-१९२-२९॥
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम्। कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥१२-१९२-३०॥
मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम्। कालेन चोदितं विप्र त्वामितो नेतुमद्य वै ॥१२-१९२-३१॥
ब्राह्मण उवाच॥
स्वागतं सूर्यपुत्राय कालाय च महात्मने। मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥१२-१९२-३२॥
भीष्म उवाच॥
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे। अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥१२-१९२-३३॥
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः। इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥१२-१९२-३४॥
सर्वानेव तु राजर्षिः सम्पूज्याभिप्रणम्य च। कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥१२-१९२-३५॥
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च। अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥१२-१९२-३६॥
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि। स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे ॥१२-१९२-३७॥
राजोवाच॥
राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः। ददामि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे ॥१२-१९२-३८॥
ब्राह्मण उवाच॥
द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः। प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ॥१२-१९२-३९॥
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप। अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते ॥ ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥१२-१९२-४०॥
राजोवाच॥
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्। प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ॥१२-१९२-४१॥
ब्राह्मण उवाच॥
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप। अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥१२-१९२-४२॥
राजोवाच॥
स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम्। याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥१२-१९२-४३॥
ब्राह्मण उवाच॥
युद्धं मम सदा वाणी याचतीति विकत्थसे। न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥१२-१९२-४४॥
राजोवाच॥
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः। वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥१२-१९२-४५॥
ब्राह्मण उवाच॥
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्। ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥१२-१९२-४६॥
राजोवाच॥
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया। फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥१२-१९२-४७॥
ब्राह्मण उवाच॥
परमं गृह्यतां तस्य फलं यज्जपितं मया। अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ॥१२-१९२-४८॥
अथ वा सर्वमेवेह जप्यकं मामकं फलम्। राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥१२-१९२-४९॥
राजोवाच॥
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया। स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ॥१२-१९२-५०॥
ब्राह्मण उवाच॥
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया। अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥१२-१९२-५१॥
राजोवाच॥
अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति। प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥१२-१९२-५२॥
ब्राह्मण उवाच॥
नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया। वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ॥१२-१९२-५३॥
नाभिसन्धिर्मया जप्ये कृतपूर्वः कथञ्चन। जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ॥१२-१९२-५४॥
ददस्वेति त्वया चोक्तं ददामीति तथा मया। न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥१२-१९२-५५॥
अथैवं वदतो मेऽद्य वचनं न करिष्यसि। महानधर्मो भविता तव राजन्मृषाकृतः ॥१२-१९२-५६॥
न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम। तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ॥१२-१९२-५७॥
संश्रुतं च मया पूर्वं ददानीत्यविचारितम्। तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥१२-१९२-५८॥
इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः। तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ॥१२-१९२-५९॥
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत्। कुत एवावरान्राजन्मृषावादपरायणः ॥१२-१९२-६०॥
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि। तथा सत्यं परे लोके यथा वै पुरुषर्षभ ॥१२-१९२-६१॥
तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः। समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥१२-१९२-६२॥
सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः। सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥१२-१९२-६३॥
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्। सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥१२-१९२-६४॥
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः। व्रतचर्यास्तथा सत्यमोङ्कारः सत्यमेव च ॥१२-१९२-६५॥
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च। सत्येन वायुरभ्येति सत्येन तपते रविः ॥१२-१९२-६६॥
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः। सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥१२-१९२-६७॥
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम्। समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् ॥१२-१९२-६८॥
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते। किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥१२-१९२-६९॥
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः। कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥१२-१९२-७०॥
यदि जप्यफलं दत्तं मया नेषिष्यसे नृप। स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥१२-१९२-७१॥
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति। उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ॥१२-१९२-७२॥
राजोवाच॥
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज। दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥१२-१९२-७३॥
ब्राह्मण उवाच॥
न छन्दयामि ते राजन्नापि ते गृहमाव्रजम्। इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥१२-१९२-७४॥
धर्म उवाच॥
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम्। द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥१२-१९२-७५॥
स्वर्ग उवाच॥
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्। अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥१२-१९२-७६॥
राजोवाच॥
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम्। विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ॥१२-१९२-७७॥
ब्राह्मण उवाच॥
बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः। निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ॥१२-१९२-७८॥
निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम्। स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ॥ तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥१२-१९२-७९॥
राजोवाच॥
यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम्। आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ॥१२-१९२-८०॥
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः। यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥१२-१९२-८१॥
मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि। प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥१२-१९२-८२॥
भीष्म उवाच॥
ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ। गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ॥१२-१९२-८३॥
न मे धारयसीत्येको धारयामीति चापरः। इहास्ति नौ विवादोऽयमयं राजानुशासकः ॥१२-१९२-८४॥
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्। अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ॥१२-१९२-८५॥
तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः। परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ॥१२-१९२-८६॥
विरूप उवाच॥
धारयामि नरव्याघ्र विकृतस्येह गोः फलम्। ददतश्च न गृह्णाति विकृतो मे महीपते ॥१२-१९२-८७॥
विकृत उवाच॥
न मे धारयते किञ्चिद्विरूपोऽयं नराधिप। मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ॥१२-१९२-८८॥
राजोवाच॥
विरूप किं धारयते भवानस्य वदस्व मे। श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ॥१२-१९२-८९॥
विरूप उवाच॥
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम्। विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥१२-१९२-९०॥
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ। धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥१२-१९२-९१॥
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः। विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना ॥१२-१९२-९२॥
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये। गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ॥१२-१९२-९३॥
ते चोञ्छवृत्तये राजन्मया समपवर्जिते। यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥१२-१९२-९४॥
इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम्। एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ॥१२-१९२-९५॥
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप। कुरु धर्ममधर्मं वा विनये नौ समाधय ॥१२-१९२-९६॥
यदि नेच्छति मे दानं यथा दत्तमनेन वै। भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः ॥१२-१९२-९७॥
राजोवाच॥
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै। यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ॥१२-१९२-९८॥
विकृत उवाच॥
दीयतामित्यनेनोक्तं ददानीति तथा मया। नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ॥१२-१९२-९९॥
राजोवाच॥
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे। दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥१२-१९२-१००॥
विकृत उवाच॥
मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः। काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो ॥१२-१९२-१०१॥
विरूप उवाच॥
दीयमानं यदि मया नेषिष्यसि कथञ्चन। नियंस्यति त्वा नृपतिरयं धर्मानुशासकः ॥१२-१९२-१०२॥
विकृत उवाच॥
स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्। गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥१२-१९२-१०३॥
ब्राह्मण उवाच॥
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः। प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥१२-१९२-१०४॥
राजोवाच॥
प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा। जापकस्य दृढीकारः कथमेतद्भविष्यति ॥१२-१९२-१०५॥
यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्। कथं न लिप्येयमहं दोषेण महताद्य वै ॥१२-१९२-१०६॥
भीष्म उवाच॥
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः। नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥१२-१९२-१०७॥
स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः। विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ॥१२-१९२-१०८॥
ब्राह्मण उवाच॥
गृहाण धारयेऽहं ते याचितं ते श्रुतं मया। न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥१२-१९२-१०९॥
राजोवाच॥
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः। इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥१२-१९२-११०॥
एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः। यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥१२-१९२-१११॥
ब्राह्मण उवाच॥
संहितां जपता यावान्मया कश्चिद्गुणः कृतः। तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ॥१२-१९२-११२॥
राजोवाच॥
जलमेतन्निपतितं मम पाणौ द्विजोत्तम। सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥१२-१९२-११३॥
विरूप उवाच॥
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्। समेति च यदुक्तं ते समा लोकास्तवास्य च ॥१२-१९२-११४॥
नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता। कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥१२-१९२-११५॥
सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव। गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥१२-१९२-११६॥
भीष्म उवाच॥
जापकानां फलावाप्तिर्मया ते सम्प्रकीर्तिता। गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥१२-१९२-११७॥
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्। अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा ॥१२-१९२-११८॥
स तैजसेन भावेन यदि तत्राश्नुते रतिम्। गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ॥१२-१९२-११९॥
एवं सोमे तथा वायौ भूम्याकाशशरीरगः। सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥१२-१९२-१२०॥
अथ तत्र विरागी स गच्छति त्वथ संशयम्। परमव्ययमिच्छन्स तमेवाविशते पुनः ॥१२-१९२-१२१॥
अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान्। ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ॥१२-१९२-१२२॥
ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम्। अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥१२-१९२-१२३॥
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः। पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ॥१२-१९२-१२४॥
अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति। यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥१२-१९२-१२५॥
अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान्। निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ॥१२-१९२-१२६॥
एवमेषा महाराज जापकस्य गतिर्यथा। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥१२-१९२-१२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.