12.191
युधिष्ठिर उवाच॥
कीदृशो जापको याति निरयं वर्णयस्व मे। कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति ॥१२-१९१-१॥
भीष्म उवाच॥
धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः। धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ॥१२-१९१-२॥
अमूनि यानि स्थानानि देवानां परमात्मनाम्। नानासंस्थानवर्णानि नानारूपफलानि च ॥१२-१९१-३॥
दिव्यानि कामचारीणि विमानानि सभास्तथा। आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ॥१२-१९१-४॥
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः। मरुतां विश्वदेवानां साध्यानामश्विनोरपि ॥१२-१९१-५॥
रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम्। एते वै निरयास्तात स्थानस्य परमात्मनः ॥१२-१९१-६॥
अभयं चानिमित्तं च न च क्लेशभयावृतम्। द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ॥१२-१९१-७॥
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्। अप्रहर्षमनानन्दमशोकं विगतक्लमम् ॥१२-१९१-८॥
कालः सम्पच्यते तत्र न कालस्तत्र वै प्रभुः। स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः ॥१२-१९१-९॥
आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति। ईदृशं परमं स्थानं निरयास्ते च तादृशाः ॥१२-१९१-१०॥
एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्। तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः ॥१२-१९१-११॥