12.201
Library: who were the lords of beings in ancient times? And who are the greatly fortunate sages remembered in each direction?
युधिष्ठिर उवाच॥
के पूर्वमासन्पतयः प्रजानां भरतर्षभ। के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥१२-२०१-१॥
भीष्म उवाच॥
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि। प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥१२-२०१-२॥
एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः। ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयम्भुवः ॥१२-२०१-३॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा ॥१२-२०१-४॥
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः। अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥१२-२०१-५॥
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः। प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥१२-२०१-६॥
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः। तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥१२-२०१-७॥
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते। अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥१२-२०१-८॥
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान्। सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥१२-२०१-९॥
अर्यमा चैव भगवान्ये चान्ये तनया विभो। एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥१२-२०१-१०॥
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत। एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥१२-२०१-११॥
एवं शतसहस्राणां शतं तस्य महात्मनः। पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम् ॥१२-२०१-१२॥
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम्। स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥१२-२०१-१३॥
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः। अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥१२-२०१-१४॥
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा। सविता चैव धाता च विवस्वांश्च महाबलः ॥१२-२०१-१५॥
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते। त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ॥१२-२०१-१६॥
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि। मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥१२-२०१-१७॥
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः। अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥१२-२०१-१८॥
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥ पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥१२-२०१-१९॥
एत एवंविधा देवा मनोरेव प्रजापतेः। ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥१२-२०१-२०॥
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः। ऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥१२-२०१-२१॥
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ। आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥१२-२०१-२२॥
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ। स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ॥१२-२०१-२३॥
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥१२-२०१-२३॥
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत्। स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥१२-२०१-२४॥
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू। औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥१२-२०१-२५॥
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा। त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥१२-२०१-२६॥
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्। प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥१२-२०१-२७॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्। एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥१२-२०१-२८॥
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥१२-२०१-२९॥
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः। एते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥१२-२०१-३०॥
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः। गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥१२-२०१-३१॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः। जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ॥१२-२०१-३२॥
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः। साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥१२-२०१-३३॥
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः। एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ॥१२-२०१-३४॥
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः। मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥१२-२०१-३५॥