12.203
युधिष्ठिर उवाच॥
योगं मे परमं तात मोक्षस्य वद भारत। तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ॥१२-२०३-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥१२-२०३-२॥
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्। शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ॥ चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत् ॥१२-२०३-३॥
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम। संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि ॥१२-२०३-४॥
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम्। कथं च सर्वभूतेषु समेषु द्विजसत्तम ॥ सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥१२-२०३-५॥
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्। एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥१२-२०३-६॥
गुरुरुवाच॥
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्। अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥१२-२०३-७॥
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम्। सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् ॥१२-२०३-८॥
पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः। सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥ तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे ॥१२-२०३-९॥
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा। माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥ अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् ॥१२-२०३-१०॥
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्। त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ॥१२-२०३-११॥
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्। वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ॥१२-२०३-१२॥
पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान्। नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ॥१२-२०३-१३॥
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्। प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ॥१२-२०३-१४॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥१२-२०३-१५॥
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु। तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥१२-२०३-१६॥
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥१२-२०३-१७॥
वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः। भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ॥१२-२०३-१८॥
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्। देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥१२-२०३-१९॥
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः। हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥१२-२०३-२०॥
अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः। एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥१२-२०३-२१॥
नारायणादृषिगणास्तथा मुख्याः सुरासुराः। राजर्षयः पुराणाश्च परमं दुःखभेषजम् ॥१२-२०३-२२॥
पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा। हेतुयुक्तमतः सर्वं जगत्सम्परिवर्तते ॥१२-२०३-२३॥
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः। प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते ॥१२-२०३-२४॥
अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते। आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः ॥१२-२०३-२५॥
वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता। मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् ॥१२-२०३-२६॥
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि। विषयाः पञ्च चैकं च विकारे षोडशं मनः ॥१२-२०३-२७॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि। पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि ॥१२-२०३-२८॥
शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च। विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥१२-२०३-२९॥
रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च। इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ॥१२-२०३-३०॥
विद्यात्तु षोडशैतानि दैवतानि विभागशः। देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥१२-२०३-३१॥
तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः। श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा ॥ स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥१२-२०३-३२॥
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा। सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् ॥१२-२०३-३३॥
एते भावा जगत्सर्वं वहन्ति सचराचरम्। श्रिता विरजसं देवं यमाहुः परमं पदम् ॥१२-२०३-३४॥
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम्। व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥१२-२०३-३५॥
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान्। व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥१२-२०३-३६॥
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्। ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥१२-२०३-३७॥
सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति। कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥१२-२०३-३८॥
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते। तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥१२-२०३-३९॥
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः। सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥१२-२०३-४०॥
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः। देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ॥१२-२०३-४१॥
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते। कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥१२-२०३-४२॥
स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते। तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥१२-२०३-४३॥