12.202
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ युधि सत्यपराक्रम। श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् ॥१२-२०२-१॥
यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम्। तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ ॥१२-२०२-२॥
तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः। केन कार्यविसर्गेण तन्मे ब्रूहि पितामह ॥१२-२०२-३॥
भीष्म उवाच॥
पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः। तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥१२-२०२-४॥
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि। प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् ॥१२-२०२-५॥
कथैषा कथिता तत्र कश्यपेन महर्षिणा। मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु ॥१२-२०२-६॥
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः। बलेन मत्ताः शतशो नरकाद्या महासुराः ॥१२-२०२-७॥
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः। न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥१२-२०२-८॥
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा। न शर्म लेभिरे राजन्विशमानास्ततस्ततः ॥१२-२०२-९॥
पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः। दानवैरभिसङ्कीर्णां घोररूपैर्महाबलैः ॥ भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम् ॥१२-२०२-१०॥
अथादितेयाः सन्त्रस्ता ब्रह्माणमिदमब्रुवन्। कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम् ॥१२-२०२-११॥
स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया। ते वरेणाभिसंमत्ता बलेन च मदेन च ॥१२-२०२-१२॥
नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम्। वराहरूपिणं देवमधृष्यममरैरपि ॥१२-२०२-१३॥
एष वेगेन गत्वा हि यत्र ते दानवाधमाः। अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः ॥ शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः ॥१२-२०२-१४॥
ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः। अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति ॥१२-२०२-१५॥
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम्। प्रसह्य सहसा सर्वे सन्तस्थुः कालमोहिताः ॥१२-२०२-१६॥
सर्वे च समभिद्रुत्य वराहं जगृहुः समम्। सङ्क्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥१२-२०२-१७॥
दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः। नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभो ॥१२-२०२-१८॥
ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा। संशयं गतमात्मानं मेनिरे च सहस्रशः ॥१२-२०२-१९॥
ततो देवादिदेवः स योगात्मा योगसारथिः। योगमास्थाय भगवांस्तदा भरतसत्तम ॥१२-२०२-२०॥
विननाद महानादं क्षोभयन्दैत्यदानवान्। संनादिता येन लोकाः सर्वाश्चैव दिशो दश ॥१२-२०२-२१॥
तेन संनादशब्देन लोकाः सङ्क्षोभमागमन्। सम्भ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥१२-२०२-२२॥
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा। स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥१२-२०२-२३॥
ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः। पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः ॥१२-२०२-२४॥
रसातलगतांश्चैव वराहस्त्रिदशद्विषः। खुरैः संदारयामास मांसमेदोस्थिसञ्चयम् ॥१२-२०२-२५॥
नादेन तेन महता सनातन इति स्मृतः। पद्मनाभो महायोगी भूताचार्यः स भूतराट् ॥१२-२०२-२६॥
ततो देवगणाः सर्वे पितामहमुपाब्रुवन्। नादोऽयं कीदृशो देव नैनं विद्म वयं विभो ॥ कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् ॥१२-२०२-२७॥
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः। उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः ॥१२-२०२-२८॥
पितामह उवाच॥
निहत्य दानवपतीन्महावर्ष्मा महाबलः। एष देवो महायोगी भूतात्मा भूतभावनः ॥१२-२०२-२९॥
सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः। स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः ॥१२-२०२-३०॥
कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः। समायातः स्वमात्मानं महाभागो महाद्युतिः ॥१२-२०२-३१॥
पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥१२-२०२-३१॥
न सन्तापो न भीः कार्या शोको वा सुरसत्तमाः। विधिरेष प्रभावश्च कालः सङ्क्षयकारकः ॥१२-२०२-३२॥
लोकान्धारयतानेन नादो मुक्तो महात्मना ॥१२-२०२-३२॥
स एव हि महाभागः सर्वलोकनमस्कृतः। अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः ॥१२-२०२-३३॥