Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.204
गुरुरुवाच॥
चतुर्विधानि भूतानि स्थावराणि चराणि च। अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च ॥ अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः ॥१२-२०४-१॥
यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः। निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा ॥१२-२०४-२॥
अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ। स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥१२-२०४-३॥
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः। अचेतनाश्चेतयितुः कारणादभिसंहिताः ॥१२-२०४-४॥
न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः। नान्यदासीदृते जीवमासेदुर्न तु संहितम् ॥१२-२०४-५॥
सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम्। अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ॥१२-२०४-६॥
तत्कारणैर्हि संयुक्तं कार्यसङ्ग्रहकारकम्। येनैतद्वर्तते चक्रमनादिनिधनं महत् ॥१२-२०४-७॥
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्। क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥१२-२०४-८॥
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत्। तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः ॥१२-२०४-९॥
कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम्। कार्यकारणसंयोगे स हेतुरुपपादितः ॥१२-२०४-१०॥
नात्येति कारणं कार्यं न कार्यं कारणं तथा। कार्याणां तूपकरणे कालो भवति हेतुमान् ॥१२-२०४-११॥
हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम्। अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥१२-२०४-१२॥
सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः। क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा ॥ न च तैः स्पृश्यते भावो न ते तेन महात्मना ॥१२-२०४-१३॥
सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत्। तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः ॥ अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥१२-२०४-१४॥
संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः। तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् ॥१२-२०४-१५॥
बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्बध्यते पुनः ॥१२-२०४-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.