Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.206
गुरुरुवाच॥
रजसा साध्यते मोहस्तमसा च नरर्षभ। क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः ॥१२-२०६-१॥
परमं परमात्मानं देवमक्षयमव्ययम्। विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् ॥१२-२०६-२॥
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः। मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ॥१२-२०६-३॥
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः। मानदर्पादहङ्कारमहङ्कारात्ततः क्रियाः ॥१२-२०६-४॥
क्रियाभिः स्नेहसम्बन्धः स्नेहाच्छोकमनन्तरम्। सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः ॥१२-२०६-५॥
जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम्। पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् ॥१२-२०६-६॥
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन्। संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः ॥१२-२०६-७॥
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः। तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः ॥१२-२०६-८॥
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्। रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥१२-२०६-९॥
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः। स्वदेहजानस्वसञ्ज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् ॥ स्वसञ्ज्ञानस्वजांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत् ॥१२-२०६-१०॥
शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः। स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥१२-२०६-११॥
रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम्। ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम् ॥१२-२०६-१२॥
तद्बीजं देहिनामाहुस्तद्बीजं जीवसञ्ज्ञितम्। कर्मणा कालयुक्तेन संसारपरिवर्तकम् ॥१२-२०६-१३॥
रमत्ययं यथा स्वप्ने मनसा देहवानिव। कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते ॥१२-२०६-१४॥
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम्। जायते तदहङ्काराद्रागयुक्तेन चेतसा ॥१२-२०६-१५॥
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः। रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया ॥१२-२०६-१६॥
स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः। व्यानोदानौ समानश्च पञ्चधा देहयापना ॥१२-२०६-१७॥
सञ्जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः। दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥१२-२०६-१८॥
दुःखं विद्यादुपादानादभिमानाच्च वर्धते। त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥१२-२०६-१९॥
इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ। परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥१२-२०६-२०॥
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्। ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति ॥१२-२०६-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.