12.207
गुरुरुवाच॥
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा। तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् ॥१२-२०७-१॥
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते। पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः ॥१२-२०७-२॥
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः। ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः ॥१२-२०७-३॥
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि। ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥१२-२०७-४॥
तांस्तानुपासते धर्मान्धर्मकामा यथागमम्। न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥१२-२०७-५॥
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः। सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् ॥१२-२०७-६॥
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्। परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् ॥१२-२०७-७॥
लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम्। श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥१२-२०७-८॥
जिह्वया रसनं यच्च तदेव परिवर्जितम्। बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् ॥१२-२०७-९॥
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान्। द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥१२-२०७-१०॥
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु। सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥१२-२०७-११॥
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः। कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः ॥१२-२०७-१२॥
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः। मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् ॥१२-२०७-१३॥
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम्। ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः ॥१२-२०७-१४॥
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्। तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥१२-२०७-१५॥
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च। मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् ॥१२-२०७-१६॥
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः। याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः ॥१२-२०७-१७॥
एवमेताः सिरानद्यो रसोदा देहसागरम्। तर्पयन्ति यथाकालमापगा इव सागरम् ॥१२-२०७-१८॥
मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा। शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥१२-२०७-१९॥
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः। नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥१२-२०७-२०॥
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः। शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः ॥१२-२०७-२१॥
स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः। शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा ॥१२-२०७-२२॥
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम्। त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥१२-२०७-२३॥
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम्। विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम् ॥१२-२०७-२४॥
गुणानां साम्यमागम्य मनसैव मनोवहम्। देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥१२-२०७-२५॥
भविता मनसो ज्ञानं मन एव प्रतायते। ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् ॥१२-२०७-२६॥
तस्मात्तदविघाताय कर्म कुर्यादकल्मषम्। रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥१२-२०७-२७॥
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्। परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ॥१२-२०७-२८॥
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम्। यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते ॥१२-२०७-२९॥