Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.217
भीष्म उवाच॥
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्। निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥१२-२१७-१॥
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः। लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥१२-२१७-२॥
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले। ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥१२-२१७-३॥
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्। विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥१२-२१७-४॥
बलिरुवाच॥
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः। तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥१२-२१७-५॥
अन्तवन्त इमे देहा भूतानाममराधिप। तेन शक्र न शोचामि नापराधादिदं मम ॥१२-२१७-६॥
जीवितं च शरीरं च प्रेत्य वै सह जायते। उभे सह विवर्धेते उभे सह विनश्यतः ॥१२-२१७-७॥
तदीदृशमिदं भावमवशः प्राप्य केवलम्। यद्येवमभिजानामि का व्यथा मे विजानतः ॥१२-२१७-८॥
भूतानां निधनं निष्ठा स्रोतसामिव सागरः। नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥१२-२१७-९॥
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः। ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥१२-२१७-१०॥
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम्। विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति ॥१२-२१७-११॥
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः। कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥१२-२१७-१२॥
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा। सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥१२-२१७-१३॥
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन। उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥१२-२१७-१४॥
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते। अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥१२-२१७-१५॥
को हि लोकस्य कुरुते विनाशप्रभवावुभौ। कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥१२-२१७-१६॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। एतद्योनीनि भूतानि तत्र का परिदेवना ॥१२-२१७-१७॥
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः। दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥१२-२१७-१८॥
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा। तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥१२-२१७-१९॥
दग्धमेवानुदहति हतमेवानुहन्ति च। नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥१२-२१७-२०॥
नास्य द्वीपः कुतः पारं नावारः सम्प्रदृश्यते। नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥१२-२१७-२१॥
यदि मे पश्यतः कालो भूतानि न विनाशयेत्। स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥१२-२१७-२२॥
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे। बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ॥१२-२१७-२३॥
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः। विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥१२-२१७-२४॥
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति। कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥१२-२१७-२५॥
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर। अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥१२-२१७-२६॥
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः। प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥१२-२१७-२७॥
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा। समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥१२-२१७-२८॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः। आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥१२-२१७-२९॥
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः। इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥१२-२१७-३०॥
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते। एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥१२-२१७-३१॥
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्। दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥१२-२१७-३२॥
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते। सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥१२-२१७-३३॥
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते। अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥१२-२१७-३४॥
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्। यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम् ॥१२-२१७-३५॥
न कर्म तव नान्येषां कुतो मम शतक्रतो। ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥१२-२१७-३६॥
पश्यामि त्वा विराजन्तं देवराजमवस्थितम्। श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ॥१२-२१७-३७॥
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत्। पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥१२-२१७-३८॥
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः। कालः स्थापयते सर्वं कालः पचति वै तथा ॥१२-२१७-३९॥
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम्। गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥१२-२१७-४०॥
द्वादशानां हि भवतामादित्यानां महात्मनाम्। तेजांस्येकेन सर्वेषां देवराज हृतानि मे ॥१२-२१७-४१॥
अहमेवोद्वहाम्यापो विसृजामि च वासव। तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥१२-२१७-४२॥
संरक्षामि विलुम्पामि ददाम्यहमथाददे। संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥१२-२१७-४३॥
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप। कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥१२-२१७-४४॥
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते। पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥१२-२१७-४५॥
मासार्धमासवेश्मानमहोरात्राभिसंवृतम्। ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥१२-२१७-४६॥
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया। अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥१२-२१७-४७॥
गन्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा। अनादिनिधनं चाहुरक्षरं परमेव च ॥१२-२१७-४८॥
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम्। मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥१२-२१७-४९॥
भूतानां तु विपर्यासं मन्यते गतवानिति। न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥१२-२१७-५०॥
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि। यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ॥ तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥१२-२१७-५१॥
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम्। ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥१२-२१७-५२॥
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे। मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ॥ तं कालमवजानीहि यस्य सर्वमिदं वशे ॥१२-२१७-५३॥
बहूनीन्द्रसहस्राणि समतीतानि वासव। बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥१२-२१७-५४॥
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम्। प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥१२-२१७-५५॥
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव। मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥१२-२१७-५६॥
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम्। स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥१२-२१७-५७॥
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम्। मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥१२-२१७-५८॥
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि। त्वामप्येवङ्गतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥१२-२१७-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.