12.218
Library: Lakshmi emerging from Bali and said she is under the control of time and has her foot at Earth, Water, Fire, and Virtuous.
भीष्म उवाच॥
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः। स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् ॥१२-२१८-१॥
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः। विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥१२-२१८-२॥
बले केयमपक्रान्ता रोचमाना शिखण्डिनी। त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥१२-२१८-३॥
बलिरुवाच॥
न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम्। त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव ॥१२-२१८-४॥
शक्र उवाच॥
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी। अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥१२-२१८-५॥
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा। हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः ॥१२-२१८-६॥
श्रीरुवाच॥
न मा विरोचनो वेद न मा वैरोचनो बलिः। आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥१२-२१८-७॥
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव। त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥१२-२१८-८॥
शक्र उवाच॥
किमिदं त्वं मम कृते उताहो बलिनः कृते। दुःसहे विजहास्येनं चिरसंवासिनी सती ॥१२-२१८-९॥
श्रीरुवाच॥
न धाता न विधाता मां विदधाति कथञ्चन। कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः ॥१२-२१८-१०॥
शक्र उवाच॥
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि। कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥१२-२१८-११॥
श्रीरुवाच॥
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि। पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥१२-२१८-१२॥
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः। अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् ॥१२-२१८-१३॥
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम्। प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः ॥१२-२१८-१४॥
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव। अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च ॥१२-२१८-१५॥
शक्र उवाच॥
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्। यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥१२-२१८-१६॥
श्रीरुवाच॥
नैव देवो न गन्धर्वो नासुरो न च राक्षसः। यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥१२-२१८-१७॥
शक्र उवाच॥
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे। तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि ॥१२-२१८-१८॥
श्रीरुवाच॥
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्। विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥१२-२१८-१९॥
शक्र उवाच॥
अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम्। न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥१२-२१८-२०॥
भूमिरेव मनुष्येषु धारणी भूतभाविनी। सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥१२-२१८-२१॥
श्रीरुवाच॥
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः। द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥१२-२१८-२२॥
शक्र उवाच॥
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः। तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥१२-२१८-२३॥
श्रीरुवाच॥
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः। तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥१२-२१८-२४॥
शक्र उवाच॥
यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः। तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥१२-२१८-२५॥
श्रीरुवाच॥
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः। चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥१२-२१८-२६॥
शक्र उवाच॥
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः। ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥१२-२१८-२७॥
श्रीरुवाच॥
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः। एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् ॥१२-२१८-२८॥
शक्र उवाच॥
भूतानामिह वै यस्त्वा मया विनिहितां सतीम्। उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः ॥१२-२१८-२९॥
भीष्म उवाच॥
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत्। यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ॥१२-२१८-३०॥
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः। तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा ॥ पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा ॥१२-२१८-३१॥
सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति। तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो ॥१२-२१८-३२॥
शक्र उवाच॥
ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति। तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि ॥१२-२१८-३३॥
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर। आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः ॥१२-२१८-३४॥
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा। अजस्रं परियात्येष सत्येनावतपन्प्रजाः ॥१२-२१८-३५॥
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा। येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥१२-२१८-३६॥
भीष्म उवाच॥
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत। जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥१२-२१८-३७॥
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम्। वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ॥१२-२१८-३८॥