12.219
भीष्म उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥१२-२१९-१॥
श्रियाविहीनमासीनमक्षोभ्यमिवसागरम्। भवाभवज्ञंभूतानामित्युवाचपुरंदरः॥१२-२१९-२॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः। श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥१२-२१९-३॥
नमुचिरुवाच॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता ॥१२-२१९-४॥
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्। सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर ॥१२-२१९-५॥
विनीय खलु तद्दुःखमागतं वैमनस्यजम्। ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥१२-२१९-६॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः। तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः ॥१२-२१९-७॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि ॥१२-२१९-८॥
भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि। आशाः सुशर्म्याः सुहृदां सुकुर्व; न्यथा नियुक्तोऽस्मि तथा वहामि ॥१२-२१९-९॥
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा। भवितव्यं यथा यच्च भवत्येव तथा तथा ॥१२-२१९-१०॥
यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः। तत्र तत्रैव वसति न यत्र स्वयमिच्छति ॥१२-२१९-११॥
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम। इति यस्य सदा भावो न स मुह्येत्कदाचन ॥१२-२१९-१२॥
पर्यायैर्हन्यमानानामभियोक्ता न विद्यते। दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते ॥१२-२१९-१३॥
ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च। कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न सम्भ्रमन्ति ॥१२-२१९-१४॥
न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति। न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः ॥१२-२१९-१५॥
यमर्थसिद्धिः परमा न हर्षये; त्तथैव काले व्यसनं न मोहयेत्। सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरन्धरो नरः ॥१२-२१९-१६॥
यां यामवस्थां पुरुषोऽधिगच्छे; त्तस्यां रमेतापरितप्यमानः। एवं प्रवृद्धं प्रणुदेन्मनोजं; सन्तापमायासकरं शरीरात् ॥१२-२१९-१७॥
तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम्। धर्मतत्त्वमवगाह्य बुद्धिमा; न्योऽभ्युपैति स पुमान्धुरन्धरः ॥१२-२१९-१८॥
प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले। स्थानाच्च्युतश्चेन्न मुमोह गौतम; स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥१२-२१९-१९॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा। अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥१२-२१९-२०॥
यदेवमनुजातस्य धातारो विदधुः पुरा। तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥१२-२१९-२१॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति। प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च ॥१२-२१९-२२॥
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः। कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः ॥१२-२१९-२३॥