12.223
युधिष्ठिर उवाच॥
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता। गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ॥१२-२२३-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ। उग्रसेनस्य संवादं नारदे केशवस्य च ॥१२-२२३-२॥
उग्रसेन उवाच॥
पश्य सङ्कल्पते लोको नारदस्य प्रकीर्तने। मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः ॥१२-२२३-३॥
वासुदेव उवाच॥
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः। नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप ॥१२-२२३-४॥
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः। अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-५॥
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः। कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥१२-२२३-६॥
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः। ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥१२-२२३-७॥
तेजसा यशसा बुद्ध्या नयेन विनयेन च। जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-८॥
सुखशीलः सुसम्भोगः सुभोज्यः स्वादरः शुचिः। सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥१२-२२३-९॥
कल्यानं कुरुते बाढं पापमस्मिन्न विद्यते। न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-१०॥
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते। तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥१२-२२३-११॥
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथञ्चन। मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥१२-२२३-१२॥
बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः। अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-१३॥
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः। दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥१२-२२३-१४॥
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान्। वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ॥१२-२२३-१५॥
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते। अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥१२-२२३-१६॥
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित्। अनीर्ष्युर्दृढसम्भाषस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-१७॥
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन्। संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥१२-२२३-१८॥
नासूयत्यागमं कञ्चित्स्वं तपो नोपजीवति। अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः ॥१२-२२३-१९॥
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः। नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥१२-२२३-२०॥
सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः। अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥१२-२२३-२१॥
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि। स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥१२-२२३-२२॥
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम्। कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति ॥१२-२२३-२३॥