12.230
व्यास उवाच॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते। ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥१२-२३०-१॥
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये। किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥१२-२३०-२॥
तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति। उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु ॥१२-२३०-३॥
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः। दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः ॥१२-२३०-४॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः। त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥१२-२३०-५॥
एवमेतन्न चाप्येवमुभे चापि न चाप्युभे। कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥१२-२३०-६॥
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः। तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे ॥१२-२३०-७॥
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च। कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥१२-२३०-८॥
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः। तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥१२-२३०-९॥
तपसा तदवाप्नोति यद्भूत्वा सृजते जगत्। तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः ॥१२-२३०-१०॥
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः। वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ॥१२-२३०-११॥
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः। परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥१२-२३०-१२॥
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥१२-२३०-१३॥
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा। संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥१२-२३०-१४॥
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा। दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः ॥१२-२३०-१५॥
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः। गवां भूमेश्च ये चापामोषधीनां च ये रसाः ॥१२-२३०-१६॥
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः। विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च ॥१२-२३०-१७॥
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति। सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे ॥१२-२३०-१८॥
विसृतं कालनानात्वमनादिनिधनं च यत्। कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च ॥१२-२३०-१९॥
धातेदं प्रभवस्थानं भूतानां संयमो यमः। स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः ॥१२-२३०-२०॥
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम्। एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥१२-२३०-२१॥