12.231
भीष्म उवाच॥
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम्। मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥१२-२३१-१॥
शुक उवाच॥
प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः। अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥१२-२३१-२॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया। साङ्ख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे ॥१२-२३१-३॥
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते। येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि ॥१२-२३१-४॥
व्यास उवाच॥
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन ॥१२-२३१-५॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः। भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥१२-२३१-६॥
भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते। प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् ॥१२-२३१-७॥
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति। कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥१२-२३१-८॥
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥१२-२३१-९॥
शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम्। इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत ॥१२-२३१-१०॥
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः। मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥१२-२३१-११॥
इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः। नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥१२-२३१-१२॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः। प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥१२-२३१-१३॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना। सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन ॥१२-२३१-१४॥
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः। मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥१२-२३१-१५॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः। मनसा सम्प्रदीप्तेन महानात्मा प्रकाशते ॥१२-२३१-१६॥
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्। अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥१२-२३१-१७॥
अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम्। योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥१२-२३१-१८॥
विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१२-२३१-१९॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च। वसत्येको महानात्मा येन सर्वमिदं ततम् ॥१२-२३१-२०॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥१२-२३१-२१॥
यावानात्मनि वेदात्मा तावानात्मा परात्मनि। य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥१२-२३१-२२॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च। देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥१२-२३१-२३॥
शकुनीनामिवाकाशे जले वारिचरस्य वा। यथा गतिर्न दृश्येत तथैव सुमहात्मनः ॥१२-२३१-२४॥
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि। यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन ॥१२-२३१-२५॥
न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः। न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन ॥१२-२३१-२६॥
सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किञ्चन। यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः ॥१२-२३१-२७॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः। तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥१२-२३१-२८॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१२-२३१-२९॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्। तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥१२-२३१-३०॥
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः। क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् ॥१२-२३१-३१॥
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी। ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥१२-२३१-३२॥
हानिभङ्गविकल्पानां नवानां संश्रयेण च। शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥१२-२३१-३३॥
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम्। तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥१२-२३१-३४॥