Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.235
व्यास उवाच॥
द्वितीयमायुषो भागं गृहमेधी गृहे वसेत्। धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः ॥१२-२३५-१॥
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः। कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम् ॥१२-२३५-२॥
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्। तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥१२-२३५-३॥
षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ॥ गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ॥१२-२३५-४॥
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून्। प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति ॥१२-२३५-५॥
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः। न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ॥१२-२३५-६॥
नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः। तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ॥१२-२३५-७॥
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः। स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ॥ तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥१२-२३५-८॥
न खरैः सम्प्रयातस्य स्वधर्माज्ञानकस्य च। अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः ॥१२-२३५-९॥
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥१२-२३५-१०॥
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः। अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् ॥ भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥१२-२३५-११॥
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः। ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ॥१२-२३५-१२॥
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः। मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥१२-२३५-१३॥
दुहित्रा दासवर्गेण विवादं न समाचरेत्। एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते ॥१२-२३५-१४॥
एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः। आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥१२-२३५-१५॥
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः। जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥१२-२३५-१६॥
सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ। वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः ॥१२-२३५-१७॥
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः। छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् ॥१२-२३५-१८॥
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः। गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥१२-२३५-१९॥
न चार्थबद्धः कर्माणि धर्मं वा कञ्चिदाचरेत्। गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥१२-२३५-२०॥
परस्परं तथैवाहुश्चातुराश्रम्यमेव तत्। ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥१२-२३५-२१॥
कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा। यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥१२-२३५-२२॥
दश पूर्वान्दश परान्पुनाति च पितामहान्। गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः ॥१२-२३५-२३॥
स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम्। यतेन्द्रियाणामथ वा गतिरेषा विधीयते ॥१२-२३५-२४॥
स्वर्गलोको गृहस्थानामुदारमनसां हितः। स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः ॥१२-२३५-२५॥
स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम्। ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते ॥ द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥१२-२३५-२६॥
अतः परं परममुदारमाश्रमं; तृतीयमाहुस्त्यजतां कलेवरम्। वनौकसां गृहपतिनामनुत्तमं; शृणुष्वैतत्क्लिष्टशरीरकारिणाम् ॥१२-२३५-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.