Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.240
व्यास उवाच॥
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी। हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना ॥१२-२४०-१॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥१२-२४०-२॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका। यदा विकुरुते भावं तदा भवति सा मनः ॥१२-२४०-३॥
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु। शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥१२-२४०-४॥
पश्यन्ती भवते दृष्टी रसती रसनं भवेत्। जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥१२-२४०-५॥
इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति। तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥१२-२४०-६॥
कदाचिल्लभते प्रीतिं कदाचिदपि शोचते। न सुखेन न दुःखेन कदाचिदिह युज्यते ॥१२-२४०-७॥
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते। सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥१२-२४०-८॥
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः। अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः ॥१२-२४०-९॥
सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते। अविभागगता बुद्धिर्भावे मनसि वर्तते ॥ प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते ॥१२-२४०-१०॥
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु। अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव ॥१२-२४०-११॥
प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः। निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥१२-२४०-१२॥
एवंस्वभावमेवेदमिति विद्वान्न मुह्यति। अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥१२-२४०-१३॥
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः। प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः ॥१२-२४०-१४॥
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति। तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् ॥ सर्वेषामेव भूतानां तमस्यपगते यथा ॥१२-२४०-१५॥
यथा वारिचरः पक्षी न लिप्यति जले चरन्। एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ॥ असज्जमानः सर्वेषु न कथञ्चन लिप्यते ॥१२-२४०-१६॥
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि। सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः ॥१२-२४०-१७॥
सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न। न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥१२-२४०-१८॥
परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम्। सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥१२-२४०-१९॥
सृजते तु गुणानेक एको न सृजते गुणान्। पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा ॥१२-२४०-२०॥
यथा मत्स्योऽद्भिरन्यः सन्सम्प्रयुक्तौ तथैव तौ। मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सह ॥१२-२४०-२१॥
इषीका वा यथा मुञ्जे पृथक्च सह चैव च। तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥१२-२४०-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.