12.241
व्यास उवाच॥
सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति। गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥१२-२४१-१॥
स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान्। ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥१२-२४१-२॥
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते। एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥१२-२४१-३॥
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति। अनेनैव विधानेन भवेद्गर्भशयो महान् ॥१२-२४१-४॥
अनादिनिधनं नित्यमासाद्य विचरेन्नरः। अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥१२-२४१-५॥
इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्। अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥१२-२४१-६॥
तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः। अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥१२-२४१-७॥
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित्। एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ॥१२-२४१-८॥
एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्। समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् ॥१२-२४१-९॥
एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः। आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥१२-२४१-१०॥
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्। विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥१२-२४१-११॥
न भवति विदुषां महद्भयं; यदविदुषां सुमहद्भयं भवेत्। न हि गतिरधिकास्ति कस्य चि; द्भवति हि या विदुषः सनातनी ॥१२-२४१-१२॥
लोकमातुरमसूयते जन; स्तत्तदेव च निरीक्ष्य शोचते। तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं कृताकृतम् ॥१२-२४१-१३॥
यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्। न प्रियं तदुभयं न चाप्रियं; तस्य तज्जनयतीह कुर्वतः ॥१२-२४१-१४॥