Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.242
शुक उवाच॥
यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन। यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे ॥१२-२४२-१॥
व्यास उवाच॥
धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिसंस्तुतम्। विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु ॥१२-२४२-२॥
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः। सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् ॥१२-२४२-३॥
मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥१२-२४२-४॥
तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया। आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् ॥१२-२४२-५॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि। तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम् ॥१२-२४२-६॥
सर्वात्मानं महात्मानं विधूममिव पावकम्। तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥१२-२४२-७॥
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः। आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥१२-२४२-८॥
एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम्। अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति ॥१२-२४२-९॥
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना। दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित् ॥१२-२४२-१०॥
विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः। परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः ॥१२-२४२-११॥
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम्। पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ॥१२-२४२-१२॥
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्। सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥१२-२४२-१३॥
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः। प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् ॥१२-२४२-१४॥
संसारसागरगमां योनिपातालदुस्तराम्। आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् ॥१२-२४२-१५॥
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः। तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः ॥१२-२४२-१६॥
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि। सन्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः ॥१२-२४२-१७॥
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय। अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा ॥ ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ ॥१२-२४२-१८॥
एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः। धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः ॥१२-२४२-१९॥
आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम्। प्रयताय प्रवक्तव्यं हितायानुगताय च ॥१२-२४२-२०॥
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्। अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा ॥१२-२४२-२१॥
नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्। अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ॥१२-२४२-२२॥
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात्। अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते ॥१२-२४२-२३॥
यथा मतानि सर्वाणि न चैतानि यथा तथा। कथितानि मया पुत्र भवन्ति न भवन्ति च ॥१२-२४२-२४॥
तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन। पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत् ॥१२-२४२-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.