12.243
व्यास उवाच॥
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालङ्कारांश्चाप्नुयात्तस्य तस्य। मानं च कीर्तिं च यशश्च नेच्छे; त्स वै प्रचारः पश्यतो ब्राह्मणस्य ॥१२-२४३-१॥
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्। ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः ॥१२-२४३-२॥
ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित्। नाकामो म्रियते जातु न तेन न च ब्राह्मणः ॥१२-२४३-३॥
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान्। नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथञ्चन ॥१२-२४३-४॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥१२-२४३-५॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१२-२४३-६॥
कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्। कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥१२-२४३-७॥
कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः। विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥१२-२४३-८॥
आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत्। स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही ॥१२-२४३-९॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः। दमस्योपनिषद्दानं दानस्योपनिषत्तपः ॥१२-२४३-१०॥
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम्। सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः ॥१२-२४३-११॥
क्लेदनं शोकमनसोः सन्तापं तृष्णया सह। सत्त्वमिच्छसि सन्तोषाच्छान्तिलक्षणमुत्तमम् ॥१२-२४३-१२॥
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः। षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥१२-२४३-१३॥
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः। ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः ॥१२-२४३-१४॥
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्। अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते ॥१२-२४३-१५॥
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः। यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा ॥१२-२४३-१६॥
येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान्। येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥१२-२४३-१७॥
सङ्गोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन्। यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥१२-२४३-१८॥
समाहितं परे तत्त्वे क्षीणकाममवस्थितम्। सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥१२-२४३-१९॥
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः। सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥१२-२४३-२०॥
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्। ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥१२-२४३-२१॥
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते। इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥१२-२४३-२२॥
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्। पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम् ॥१२-२४३-२३॥