Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.244
व्यास उवाच॥
द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः। वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥१२-२४४-१॥
आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी। भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥१२-२४४-२॥
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्। तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् ॥१२-२४४-३॥
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ। स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥१२-२४४-४॥
ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्। तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् ॥१२-२४४-५॥
प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते। रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥१२-२४४-६॥
सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च। श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च ॥१२-२४४-७॥
इन्द्रियं घ्राणसञ्ज्ञानं नासिकेत्यभिधीयते। गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥१२-२४४-८॥
उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः। पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः ॥१२-२४४-९॥
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता। एकादशोऽन्तरात्मा च सर्वतः पर उच्यते ॥१२-२४४-१०॥
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्। कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसञ्ज्ञकः ॥१२-२४४-११॥
एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम्। पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते ॥१२-२४४-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.