Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.248
युधिष्ठिर उवाच॥
य इमे पृथिवीपालाः शेरते पृथिवीतले। पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥१२-२४८-१॥
एकैकशो भीमबला नागायुतबलास्तथा। एते हि निहताः सङ्ख्ये तुल्यतेजोबलैर्नरैः ॥१२-२४८-२॥
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा। विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः ॥१२-२४८-३॥
अथ चेमे महाप्राज्ञ शेरते हि गतासवः। मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥१२-२४८-४॥
इमे मृता नृपतयः प्रायशो भीमविक्रमाः। तत्र मे संशयो जातः कुतः सञ्ज्ञा मृता इति ॥१२-२४८-५॥
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः। हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥१२-२४८-६॥
भीष्म उवाच॥
पुरा कृतयुगे तात राजासीदविकम्पकः। स शत्रुवशमापन्नः सङ्ग्रामे क्षीणवाहनः ॥१२-२४८-७॥
तत्र पुत्रो हरिर्नाम नारायणसमो बले। स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ॥१२-२४८-८॥
स राजा शत्रुवशगः पुत्रशोकसमन्वितः। यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् ॥१२-२४८-९॥
स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः। शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ॥१२-२४८-१०॥
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः। आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥१२-२४८-११॥
राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम्। यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप ॥१२-२४८-१२॥
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः। अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥१२-२४८-१३॥
न ह्यन्तरमभूत्किञ्चित्क्वचिज्जन्तुभिरच्युत। निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥१२-२४८-१४॥
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते। चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥१२-२४८-१५॥
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत। तेन सर्वा दिशो राजन्ददाह स पितामहः ॥१२-२४८-१६॥
ततो दिवं भुवं खं च जगच्च सचराचरम्। ददाह पावको राजन्भगवत्कोपसम्भवः ॥१२-२४८-१७॥
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च। महता कोपवेगेन कुपिते प्रपितामहे ॥१२-२४८-१८॥
ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः। जगाद शरणं देवो ब्रह्माणं परवीरहा ॥१२-२४८-१९॥
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया। अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥१२-२४८-२०॥
करवाण्यद्य कं कामं वरार्होऽसि मतो मम। कर्ता ह्यस्मि प्रियं शम्भो तव यद्धृदि वर्तते ॥१२-२४८-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.