Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.249
स्थाणुरुवाच॥
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो। विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥१२-२४९-१॥
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः। ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥१२-२४९-२॥
प्रजापतिरुवाच॥
न कुप्ये न च मे कामो न भवेरन्प्रजा इति। लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥१२-२४९-३॥
इयं हि मां सदा देवी भारार्ता समचोदयत्। संहारार्थं महादेव भारेणाप्सु निमज्जति ॥१२-२४९-४॥
यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन्। संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥१२-२४९-५॥
स्थाणुरुवाच॥
संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर। मा प्रजाः स्थावरं वैच जङ्गमं च विनीनशः ॥१२-२४९-६॥
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम्। स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥१२-२४९-७॥
तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम्। प्रसीद भगवन्साधो वर एष वृतो मया ॥१२-२४९-८॥
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन। तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा ॥१२-२४९-९॥
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया। यथेमे जन्तवः सर्वे निवर्तेरन्परन्तप ॥१२-२४९-१०॥
अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः। अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर ॥१२-२४९-११॥
त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम्। प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥१२-२४९-१२॥
नारद उवाच॥
श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः। तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना ॥१२-२४९-१३॥
ततोऽग्निमुपसङ्गृह्य भगवाँल्लोकपूजितः। प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ॥१२-२४९-१४॥
उपसंहरतस्तस्य तमग्निं रोषजं तदा। प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥१२-२४९-१५॥
कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा। दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता ॥१२-२४९-१६॥
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम्। ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ ॥१२-२४९-१७॥
तामाहूय तदा देवो लोकानामादिरीश्वरः। मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥१२-२४९-१८॥
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च। तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥१२-२४९-१९॥
अविशेषेण चैव त्वं प्रजाः संहर भामिनि। मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥१२-२४९-२०॥
एवमुक्ता तु सा देवी मृत्युः कमलमालिनी। प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि ॥१२-२४९-२१॥
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः। मानवानां हितार्थाय ययाचे पुनरेव च ॥१२-२४९-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.