12.258
युधिष्ठिर उवाच॥
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा। सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥१२-२५८-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ॥१२-२५८-२॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक। चिरकारी हि मेधावी नापराध्यति कर्मसु ॥१२-२५८-३॥
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः। चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते ॥१२-२५८-४॥
चिरं सञ्चिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन्। चिरकार्याभिसम्पत्तेश्चिरकारी तथोच्यते ॥१२-२५८-५॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते। बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥१२-२५८-६॥
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्। पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥१२-२५८-७॥
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः। विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥१२-२५८-८॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्। कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥१२-२५८-९॥
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्। अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् ॥१२-२५८-१०॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्। पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥१२-२५८-११॥
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्। युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ॥१२-२५८-१२॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति। शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥१२-२५८-१३॥
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः। विज्ञानं मे कथं न स्याद्बुबुधे चात्मसम्भवम् ॥१२-२५८-१४॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि। पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥१२-२५८-१५॥
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः। पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥१२-२५८-१६॥
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता। शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥१२-२५८-१७॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कथञ्चन। पातकान्यपि पूयन्ते पितुर्वचनकारिणः ॥१२-२५८-१८॥
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने। भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ॥१२-२५८-१९॥
पिता स्वर्गः पिता धर्मः पिता परमकं तपः। पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ॥१२-२५८-२०॥
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता। निष्कृतिः सर्वपापानां पिता यदभिनन्दति ॥१२-२५८-२१॥
मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते। क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति ॥१२-२५८-२२॥
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम्। पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥१२-२५८-२३॥
यो ह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः। अस्य मे जननी हेतुः पावकस्य यथारणिः ॥ माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ॥१२-२५८-२४॥
न च शोचति नाप्येनं स्थाविर्यमपकर्षति। श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते ॥१२-२५८-२५॥
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः। अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥१२-२५८-२६॥
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा। रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥१२-२५८-२७॥
तदा स वृद्धो भवति यदा भवति दुःखितः। तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥१२-२५८-२८॥
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः। नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ॥१२-२५८-२९॥
कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता। अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥१२-२५८-३०॥
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्। चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ॥१२-२५८-३१॥
दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल। तं माता वा पिता वेद भूतार्थो मातरि स्थितः ॥१२-२५८-३२॥
माता जानाति यद्गोत्रं माता जानाति यस्य सः। मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥१२-२५८-३३॥
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च। यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् ॥१२-२५८-३४॥
भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः। गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः ॥१२-२५८-३५॥
एवं स्त्री नापराध्नोति नर एवापराध्यति। व्युच्चरंश्च महादोषं नर एवापराध्यति ॥१२-२५८-३६॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्। तस्यात्मना तु सदृशमात्मानं परमं ददौ ॥ सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥१२-२५८-३७॥
यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये। तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः ॥१२-२५८-३८॥
यावन्नारीं मातरं च गौरवे चाधिके स्थिताम्। अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥१२-२५८-३९॥
देवतानां समावायमेकस्थं पितरं विदुः। मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥१२-२५८-४०॥
एवं विमृशतस्तस्य चिरकारितया बहु। दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता ॥१२-२५८-४१॥
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः। विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥१२-२५८-४२॥
सोऽब्रवीद्दुःखसन्तप्तो भृशमश्रूणि वर्तयन्। श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥१२-२५८-४३॥
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः। अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः ॥१२-२५८-४४॥
समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः। अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः ॥१२-२५८-४५॥
परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च। अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः ॥१२-२५८-४६॥
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः। अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥१२-२५८-४७॥
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः। ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥१२-२५८-४८॥
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम्। भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥१२-२५८-४९॥
अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः। यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥१२-२५८-५०॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक। यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥१२-२५८-५१॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया। आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥१२-२५८-५२॥
सहजं चिरकारित्वं चिरप्राज्ञतया तव। सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः ॥१२-२५८-५३॥
चिरमाशंसितो मात्रा चिरं गर्भेण धारितः। सफलं चिरकारित्वं कुरु त्वं चिरकारिक ॥१२-२५८-५४॥
चिरायते च सन्तापाच्चिरं स्वपिति वारितः। आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक ॥१२-२५८-५५॥
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा। चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥१२-२५८-५६॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः। शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥१२-२५८-५७॥
गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि। पत्नीं चैव निराकारां परामभ्यगमन्मुदम् ॥१२-२५८-५८॥
न हि सा तेन सम्भेदं पत्नी नीता महात्मना। विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥१२-२५८-५९॥
हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते। विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु ॥१२-२५८-६०॥
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्। शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥१२-२५८-६१॥
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि। चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥१२-२५८-६२॥
एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः। अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् ॥१२-२५८-६३॥
चिरकारिक भद्रं ते चिरकारी चिरं भव। चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः ॥१२-२५८-६४॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः। चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् ॥१२-२५८-६५॥
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्। चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥१२-२५८-६६॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि। अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥१२-२५८-६७॥
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च। अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥१२-२५८-६८॥
एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत। कर्मणा तेन कौरव्य चिरकारितया तया ॥१२-२५८-६९॥
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः। चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥१२-२५८-७०॥
चिरं धारयते रोषं चिरं कर्म नियच्छति। पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते ॥१२-२५८-७१॥
चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्। चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ॥१२-२५८-७२॥
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च। चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥१२-२५८-७३॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्। चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते ॥१२-२५८-७४॥
उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः। समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥१२-२५८-७५॥