Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.262
कपिल उवाच॥
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः। द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥१२-२६२-१॥
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम्। कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ॥१२-२६२-२॥
आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते। निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् ॥१२-२६२-३॥
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः। उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः ॥ धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥१२-२६२-४॥
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः। मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥१२-२६२-५॥
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः। ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥१२-२६२-६॥
आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु। राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥१२-२६२-७॥
समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः। प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥१२-२६२-८॥
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः। चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः ॥१२-२६२-९॥
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत्। तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन ॥१२-२६२-१०॥
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः। न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥१२-२६२-११॥
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह। अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ॥ दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः ॥१२-२६२-१२॥
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः। त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥ यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ॥१२-२६२-१३॥
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम्। आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम् ॥१२-२६२-१४॥
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम्। ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु ॥ सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ॥१२-२६२-१५॥
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम्। स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् ॥१२-२६२-१६॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्। अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् ॥१२-२६२-१७॥
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः। सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ॥१२-२६२-१८॥
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः। तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ॥१२-२६२-१९॥
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः। गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ॥१२-२६२-२०॥
धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः। आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः ॥१२-२६२-२१॥
अत एवंविधा विप्राः पुराणा धर्मचारिणः। त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ॥१२-२६२-२२॥
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः। आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ॥१२-२६२-२३॥
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः। न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः ॥१२-२६२-२४॥
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्। कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् ॥१२-२६२-२५॥
एवं पक्वकषायाणामानन्त्येन श्रुतेन च। सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः ॥१२-२६२-२६॥
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्। चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ॥१२-२६२-२७॥
स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः। सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ॥१२-२६२-२८॥
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः। साधारणः केवलो वा यथाबलमुपास्यते ॥१२-२६२-२९॥
गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति। ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥१२-२६२-३०॥
स्यूमरश्मिरुवाच॥
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये। मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः ॥१२-२६२-३१॥
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः। एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः ॥१२-२६२-३२॥
कपिल उवाच॥
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये। न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥१२-२६२-३३॥
स्यूमरश्मिरुवाच॥
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः। आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥१२-२६२-३४॥
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते। तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥१२-२६२-३५॥
कपिल उवाच॥
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः। पक्वे कषाये वमनै रसज्ञाने न तिष्ठति ॥१२-२६२-३६॥
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्। अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥१२-२६२-३७॥
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम्। तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् ॥१२-२६२-३८॥
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः। गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ॥१२-२६२-३९॥
वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति। एवं वेदविदित्याहुरतोऽन्यो वातरेटकः ॥१२-२६२-४०॥
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्। वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥१२-२६२-४१॥
एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च। एतदन्तं च मध्यं च सच्चासच्च विजानतः ॥१२-२६२-४२॥
समस्तत्याग इत्येव शम इत्येव निष्ठितः। सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् ॥१२-२६२-४३॥
ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च। सर्वं सुखं यच्छिवमुत्तमं च; ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च ॥१२-२६२-४४॥
तेजः क्षमा शान्तिरनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम्। एतैः शब्दैर्गम्यते बुद्धिनेत्रै; स्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥१२-२६२-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.