12.272
युधिष्ठिर उवाच॥
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः। यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥१२-२७२-१॥
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः। कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥१२-२७२-२॥
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत। भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ॥१२-२७२-३॥
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ। धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥१२-२७२-४॥
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ। वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥१२-२७२-५॥
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह। विस्तरेण महाबाहो परं कौतूहलं हि मे ॥१२-२७२-६॥
भीष्म उवाच॥
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा। ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥१२-२७२-७॥
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम। शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥१२-२७२-८॥
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्। वृत्रस्य देवाः सन्त्रस्ता न शान्तिमुपलेभिरे ॥१२-२७२-९॥
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत। भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥१२-२७२-१०॥
ततो नादः समभवद्वादित्राणां च निस्वनः। देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥१२-२७२-११॥
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम्। न सम्भ्रमो न भीः काचिदास्था वा समजायत ॥१२-२७२-१२॥
ततः समभवद्युद्धं त्रैलोक्यस्य भयङ्करम्। शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥१२-२७२-१३॥
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः। शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥१२-२७२-१४॥
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च। देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥१२-२७२-१५॥
पितामहपुरोगाश्च सर्वे देवगणास्तथा। ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥१२-२७२-१६॥
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ। गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ॥१२-२७२-१७॥
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः। अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥१२-२७२-१८॥
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः। अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥१२-२७२-१९॥
वृत्रश्च कुरुशार्दूल महामायो महाबलः। मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥१२-२७२-२०॥
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः। रथन्तरेण तं तत्र वसिष्ठः समबोधयत् ॥१२-२७२-२१॥
वसिष्ठ उवाच॥
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण। त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥१२-२७२-२२॥
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः। सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥१२-२७२-२३॥
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा। आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥१२-२७२-२४॥
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः। निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥१२-२७२-२५॥
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः। स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥१२-२७२-२६॥
भीष्म उवाच॥
एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना। अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥१२-२७२-२७॥
ततो बुद्धिमुपागम्य भगवान्पाकशासनः। योगेन महता युक्तस्तां मायां व्यपकर्षत ॥१२-२७२-२८॥
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः। दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ॥ ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥१२-२७२-२९॥
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः। समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥१२-२७२-३०॥
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः। ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ॥१२-२७२-३१॥
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्। वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥१२-२७२-३२॥
ते समासाद्य वरदं वासवं लोकपूजितम्। ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥१२-२७२-३३॥
महेश्वर उवाच॥
एष वृत्रो महाञ्शक्र बलेन महता वृतः। विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥१२-२७२-३४॥
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्। जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥१२-२७२-३५॥
अनेन हि तपस्तप्तं बलार्थममराधिप। षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥१२-२७२-३६॥
महत्त्वं योगिनां चैव महामायत्वमेव च। महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥१२-२७२-३७॥
एतद्वै मामकं तेजः समाविशति वासव। वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥१२-२७२-३८॥
शक्र उवाच॥
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम्। वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥१२-२७२-३९॥
भीष्म उवाच॥
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे। देवतानामृषीणां च हर्षान्नादो महानभूत् ॥१२-२७२-४०॥
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः। मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥१२-२७२-४१॥
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान्। प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥१२-२७२-४२॥
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा। स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥१२-२७२-४३॥
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः। ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥१२-२७२-४४॥