12.274
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद। अस्ति वृत्रवधादेव विवक्षा मम जायते ॥१२-२७४-१॥
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप। निहतो वासवेनेह वज्रेणेति ममानघ ॥१२-२७४-२॥
कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः। ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥१२-२७४-३॥
भीष्म उवाच॥
शृणु राजञ्ज्वरस्येह सम्भवं लोकविश्रुतम्। विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत ॥१२-२७४-४॥
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम्। ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥ अप्रमेयमनाधृष्यं सर्वलोकेषु भारत ॥१२-२७४-५॥
तत्र देवो गिरितटे हेमधातुविभूषिते। पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥१२-२७४-६॥
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ। तथा देवा महात्मानो वसवश्च महौजसः ॥१२-२७४-७॥
तथैव च महात्मानावश्विनौ भिषजां वरौ। तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥१२-२७४-८॥
यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः। अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे ॥१२-२७४-९॥
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ। अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ॥१२-२७४-१०॥
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः। सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः ॥१२-२७४-११॥
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः। महादेवं पशुपतिं पर्युपासन्त भारत ॥१२-२७४-१२॥
भूतानि च महाराज नानारूपधराण्यथ। राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥१२-२७४-१३॥
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः। देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥१२-२७४-१४॥
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः। प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥१२-२७४-१५॥
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा। पर्युपासत तं देवं रूपिणी कुरुनन्दन ॥१२-२७४-१६॥
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः। देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत ॥१२-२७४-१७॥
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः। पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥१२-२७४-१८॥
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः। गमनाय समागम्य बुद्धिमापेदिरे तदा ॥१२-२७४-१९॥
ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः। देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥१२-२७४-२०॥
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा। उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥१२-२७४-२१॥
भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः। ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥१२-२७४-२२॥
महेश्वर उवाच॥
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः। हयमेधेन यजते तत्र यान्ति दिवौकसः ॥१२-२७४-२३॥
उमा उवाच॥
यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि। केन वा प्रतिषेधेन गमनं ते न विद्यते ॥१२-२७४-२४॥
महेश्वर उवाच॥
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्। यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ॥१२-२७४-२५॥
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि। न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥१२-२७४-२६॥
उमा उवाच॥
भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः। अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया ॥१२-२७४-२७॥
अनेन ते महाभाग प्रतिषेधेन भागतः। अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ॥१२-२७४-२८॥
भीष्म उवाच॥
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम्। तूष्णीम्भूताभवद्राजन्दह्यमानेन चेतसा ॥१२-२७४-२९॥
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्। स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥१२-२७४-३०॥
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः। तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा ॥ सहसा घातयामास देवदेवः पिनाकधृक् ॥१२-२७४-३१॥
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे। रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ॥१२-२७४-३२॥
केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः। आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ॥१२-२७४-३३॥
ततः स यज्ञो नृपते वध्यमानः समन्ततः। आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा ॥१२-२७४-३४॥
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः। धनुरादाय बाणं च तदान्वसरत प्रभुः ॥१२-२७४-३५॥
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः। ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ॥१२-२७४-३६॥
तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि। प्रादुर्बभूव सुमहानग्निः कालानलोपमः ॥१२-२७४-३७॥
तत्र चाजायत तदा पुरुषः पुरुषर्षभ। ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः ॥१२-२७४-३८॥
ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च। करालः कृष्णवर्णश्च रक्तवासास्तथैव च ॥१२-२७४-३९॥
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः। देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश ॥१२-२७४-४०॥
तेन तस्मिन्विचरता पुरुषेण विशां पते। पृथिवी व्यचलद्राजन्नतीव भरतर्षभ ॥१२-२७४-४१॥
हाहाभूते प्रवृत्ते तु नादे लोकभयङ्करे। पितामहो महादेवं दर्शयन्प्रत्यभाषत ॥१२-२७४-४२॥
भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो। क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥१२-२७४-४३॥
इमा हि देवताः सर्वा ऋषयश्च परन्तप। तव क्रोधान्महादेव न शान्तिमुपलेभिरे ॥१२-२७४-४४॥
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम। ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥१२-२७४-४५॥
एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो। समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ॥१२-२७४-४६॥
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते। भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ॥१२-२७४-४७॥
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक्। अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥१२-२७४-४८॥
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा। शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥१२-२७४-४९॥
शीर्षाभितापो नागानां पर्वतानां शिलाजतुः। अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च ॥१२-२७४-५०॥
खोरकः सौरभेयाणामूषरं पृथिवीतले। पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥१२-२७४-५१॥
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम्। नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥१२-२७४-५२॥
अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्। शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥१२-२७४-५३॥
शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते। मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ॥ मरणे जन्मनि तथा मध्ये चाविशते नरम् ॥१२-२७४-५४॥
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः। नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥१२-२७४-५५॥
अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः। व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ॥१२-२७४-५६॥
प्रविश्य वज्रो वृत्रं तु दारयामास भारत। दारितश्च स वज्रेण महायोगी महासुरः ॥ जगाम परमं स्थानं विष्णोरमिततेजसः ॥१२-२७४-५७॥
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा। तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥१२-२७४-५८॥
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया। विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥१२-२७४-५९॥
इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः। विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान् ॥१२-२७४-६०॥