Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.282
पराशर उवाच॥
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना। प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥१२-२८२-१॥
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा। न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥१२-२८२-२॥
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः। नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥१२-२८२-३॥
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते। तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥१२-२८२-४॥
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम्। तादृशं कुरुते रूपमेतदेवमवैहि मे ॥१२-२८२-५॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन। अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥१२-२८२-६॥
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः। यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥१२-२८२-७॥
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम्। न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥१२-२८२-८॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता। स शब्दमात्रफलभाग्राजा भवति तस्करः ॥१२-२८२-९॥
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम्। धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥१२-२८२-१०॥
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत्। रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥१२-२८२-११॥
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः। शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥१२-२८२-१२॥
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः। सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥१२-२८२-१३॥
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते। अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥१२-२८२-१४॥
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः। अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥१२-२८२-१५॥
प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः। न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥१२-२८२-१६॥
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप। यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥१२-२८२-१७॥
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम्। याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥१२-२८२-१८॥
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च। तदाहुरधमं दानं मुनयः सत्यवादिनः ॥१२-२८२-१९॥
अतिक्रमे मज्जमानो विविधेन नरः सदा। तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥१२-२८२-२०॥
दमेन शोभते विप्रः क्षत्रियो विजयेन तु। धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥१२-२८२-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.