Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.283
पराशर उवाच॥
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः। वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ॥ स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥१२-२८३-१॥
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते। क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः ॥ शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥१२-२८३-२॥
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम्। शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥१२-२८३-३॥
रङ्गावतरणं चैव तथा रूपोपजीवनम्। मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥१२-२८३-४॥
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्। कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥१२-२८३-५॥
संसिद्धः पुरुषो लोके यदाचरति पापकम्। मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते ॥१२-२८३-६॥
श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः। दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥१२-२८३-७॥
धर्म एव सदा नॄणामिह राजन्प्रशस्यते। धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥१२-२८३-८॥
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप। विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥१२-२८३-९॥
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः। दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥१२-२८३-१०॥
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्। ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥१२-२८३-११॥
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा। परस्परावमर्देन वर्तयन्ति यथासुखम् ॥१२-२८३-१२॥
तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत्। ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥१२-२८३-१३॥
एतस्मिन्नेव काले तु देवा देववरं शिवम्। अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥१२-२८३-१४॥
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ। तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा ॥१२-२८३-१५॥
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः। देवतानां भयकरः स हतः शूलपाणिना ॥१२-२८३-१६॥
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः। प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥१२-२८३-१७॥
ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम्। सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ॥१२-२८३-१८॥
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः। राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ॥१२-२८३-१९॥
महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये। तेषामथासुरो भावो हृदयान्नापसर्पति ॥१२-२८३-२०॥
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः। आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः ॥१२-२८३-२१॥
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च। भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥१२-२८३-२२॥
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः। संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥१२-२८३-२३॥
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः। धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ॥१२-२८३-२४॥
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः। प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥१२-२८३-२५॥
इष्टानिष्टसमायोगो वैरं सौहार्दमेव च। अथ जातिसहस्राणि बहूनि परिवर्तते ॥१२-२८३-२६॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन। निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥१२-२८३-२७॥
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः। न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥१२-२८३-२८॥
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा। आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ॥१२-२८३-२९॥
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै। नानृतं चैव भवति तदा कल्याणमृच्छति ॥१२-२८३-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.