12.284
पराशर उवाच॥
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः। तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१२-२८४-१॥
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते। सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥१२-२८४-२॥
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च। दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥१२-२८४-३॥
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः। रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥१२-२८४-४॥
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्। मोहजाता रतिर्नाम समुपैति नराधिप ॥१२-२८४-५॥
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः। लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥१२-२८४-६॥
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम्। पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥१२-२८४-७॥
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः। बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥१२-२८४-८॥
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम्। करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥१२-२८४-९॥
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम्। अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥१२-२८४-१०॥
स्नेहायतननाशाच्च धननाशाच्च पार्थिव। आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥१२-२८४-११॥
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम्। शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥१२-२८४-१२॥
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्। यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥१२-२८४-१३॥
तपः सर्वगतं तात हीनस्यापि विधीयते। जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥१२-२८४-१४॥
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः। क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥१२-२८४-१५॥
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः। विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥१२-२८४-१६॥
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः। संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥१२-२८४-१७॥
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा। ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥१२-२८४-१८॥
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः। महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥१२-२८४-१९॥
कौशिकानि च वस्त्राणि शुभान्याभरणानि च। वाहनासनयानानि सर्वं तत्तपसः फलम् ॥१२-२८४-२०॥
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः। वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥१२-२८४-२१॥
शयनानि च मुख्यानि भोज्यानि विविधानि च। अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥१२-२८४-२२॥
नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप। उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥१२-२८४-२३॥
सुखितो दुःखितो वापि नरो लोभं परित्यजेत्। अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥१२-२८४-२४॥
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः। ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥१२-२८४-२५॥
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति। तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ॥१२-२८४-२६॥
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते। कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥१२-२८४-२७॥
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते। प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥१२-२८४-२८॥
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्। फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥१२-२८४-२९॥
धर्मे तपसि दाने च विचिकित्सास्य जायते। स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥१२-२८४-३०॥
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम। स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥१२-२८४-३१॥
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता। रसने दर्शने घ्राणे श्रवणे च विशां पते ॥१२-२८४-३२॥
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः। बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥१२-२८४-३३॥
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः। धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥१२-२८४-३४॥
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा। प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥१२-२८४-३५॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्। धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ॥१२-२८४-३६॥
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्। तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥१२-२८४-३७॥
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम्। दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥१२-२८४-३८॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्। एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥१२-२८४-३९॥