12.285
जनक उवाच॥
वर्णो विशेषवर्णानां महर्षे केन जायते। एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥१२-२८५-१॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः। कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥१२-२८५-२॥
पराशर उवाच॥
एवमेतन्महाराज येन जातः स एव सः। तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥१२-२८५-३॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः। अतोऽन्यतरतो हीनादवरो नाम जायते ॥१२-२८५-४॥
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे। सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥१२-२८५-५॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः। ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥१२-२८५-६॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ। अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥१२-२८५-७॥
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा। श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥१२-२८५-८॥
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप। एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥१२-२८५-९॥
जनक उवाच॥
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्। बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥१२-२८५-१०॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः। शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥१२-२८५-११॥
पराशर उवाच॥
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना। महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥१२-२८५-१२॥
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह। स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥१२-२८५-१३॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः। वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः ॥१२-२८५-१४॥
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः। आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ॥१२-२८५-१५॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात्। प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥१२-२८५-१६॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव। अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥१२-२८५-१७॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव। नामधेयानि तपसा तानि च ग्रहणं सताम् ॥१२-२८५-१८॥
जनक उवाच॥
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम। तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥१२-२८५-१९॥
पराशर उवाच॥
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप। विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥१२-२८५-२०॥
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि। द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥१२-२८५-२१॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः। धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥१२-२८५-२२॥
आनृशंस्यमहिंसा चाप्रमादः संविभागिता। श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥१२-२८५-२३॥
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता। आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥१२-२८५-२४॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः। अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥१२-२८५-२५॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः। उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ॥१२-२८५-२६॥
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा। श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधन कृतम् ॥१२-२८५-२७॥
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः। अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् ॥१२-२८५-२८॥
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः। मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥१२-२८५-२९॥
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः। तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥१२-२८५-३०॥
जनक उवाच॥
किं कर्म दूषयत्येनमथ जातिर्महामुने। संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥१२-२८५-३१॥
पराशर उवाच॥
असंशयं महाराज उभयं दोषकारकम्। कर्म चैव हि जातिश्च विशेषं तु निशामय ॥१२-२८५-३२॥
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते। जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥१२-२८५-३३॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्। कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ॥१२-२८५-३४॥
जनक उवाच॥
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम। न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥१२-२८५-३५॥
पराशर उवाच॥
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि। यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥१२-२८५-३६॥
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः। नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥१२-२८५-३७॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः। प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥१२-२८५-३८॥
सर्वे वर्णा धर्मकार्याणि सम्य; क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा। त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः ॥१२-२८५-३९॥