Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.285
Library: Parashara continues: The specific duties of the classes and also the general duties. Does action defile him, or is it birth?
जनक उवाच॥
वर्णो विशेषवर्णानां महर्षे केन जायते। एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥१२-२८५-१॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः। कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥१२-२८५-२॥
पराशर उवाच॥
एवमेतन्महाराज येन जातः स एव सः। तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥१२-२८५-३॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः। अतोऽन्यतरतो हीनादवरो नाम जायते ॥१२-२८५-४॥
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे। सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥१२-२८५-५॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः। ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥१२-२८५-६॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ। अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥१२-२८५-७॥
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा। श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥१२-२८५-८॥
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप। एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥१२-२८५-९॥
जनक उवाच॥
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्। बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥१२-२८५-१०॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः। शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥१२-२८५-११॥
पराशर उवाच॥
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना। महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥१२-२८५-१२॥
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह। स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥१२-२८५-१३॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः। वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः ॥१२-२८५-१४॥
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः। आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ॥१२-२८५-१५॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात्। प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥१२-२८५-१६॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव। अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥१२-२८५-१७॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव। नामधेयानि तपसा तानि च ग्रहणं सताम् ॥१२-२८५-१८॥
जनक उवाच॥
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम। तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥१२-२८५-१९॥
पराशर उवाच॥
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप। विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥१२-२८५-२०॥
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि। द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥१२-२८५-२१॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः। धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥१२-२८५-२२॥
आनृशंस्यमहिंसा चाप्रमादः संविभागिता। श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥१२-२८५-२३॥
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता। आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥१२-२८५-२४॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः। अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥१२-२८५-२५॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः। उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ॥१२-२८५-२६॥
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा। श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधन कृतम् ॥१२-२८५-२७॥
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः। अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् ॥१२-२८५-२८॥
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः। मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥१२-२८५-२९॥
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः। तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥१२-२८५-३०॥
जनक उवाच॥
किं कर्म दूषयत्येनमथ जातिर्महामुने। संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥१२-२८५-३१॥
पराशर उवाच॥
असंशयं महाराज उभयं दोषकारकम्। कर्म चैव हि जातिश्च विशेषं तु निशामय ॥१२-२८५-३२॥
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते। जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥१२-२८५-३३॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्। कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ॥१२-२८५-३४॥
जनक उवाच॥
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम। न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥१२-२८५-३५॥
पराशर उवाच॥
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि। यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥१२-२८५-३६॥
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः। नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥१२-२८५-३७॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः। प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥१२-२८५-३८॥
सर्वे वर्णा धर्मकार्याणि सम्य; क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा। त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः ॥१२-२८५-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.